This page has been fully proofread once and needs a second look.

सर्ग: ९] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् १२७
 
सुरवृन्दमौलीन्द्रनीलमणीनां भृङ्गोपमा । एवं चरणसरोजे मकरन्दजुषो नमत्सुरमौलि -

नीलमणिव्याजेन भृङ्गा इव । किंविशिष्टैर्दिविषद्वृन्दैः अमन्दादरात्प्रचुरादरवशतः

आनम्रैः साष्टाङ्गप्रणिपातप्रवणैः । शार्दूलविक्रीडितम् ॥ ३ ॥
 

एवं कृत्वा हृदीशं द्वितयमथ नये सारमासाद्य तिस्रः
 

सम्यग्योगं चतुर्णां निपुणतरधिया पञ्च जिलात्वा विदित्वा ।

षट्कं हिलात्वाथ सप्ताष्टकुलगिरिबलो गीतगोविन्दसर्
 
गं
सूक्त्या कृत्वा निसर्गोज्ज्वलमिव नवमं कुम्भकर्णो जयी स्वात् ॥
तात् ॥
इति श्रीकुम्भकर्णविरचितायां गीतगोविन्दटीकायां रसिकप्रियायां कलहान्तरि
-
तावर्णने मुग्धमुकुन्दो नाम नवमः सर्गः ॥
 

 
यातनाः तीव्रवेदनाः । यस्तस्मिन्विपरीतमाचरति तस्य सर्वं विपरीतमेव भवतीति भावः ।
'

"
परुषं कर्बुरे रूक्षे स्यान्निष्ठुरवचस्यपि ।'" इति विश्वः । '"यातना तीव्रवेदना'" इत्यमरः ॥ २ ॥

( अत्र सान्द्रानन्देति श्लोकस्य टीका नोपलभ्यते आदर्शपुस्तके ॥ ३ ॥)

वात्स्यायनादिमतसंमतमत्र किंचि-

द्यत्कोषजातमथ शब्दनयप्रमेयम् ।

यच्चाप्यलंकृतिरहस्यमलेखि तत्त-

च्
चाम्नायमूलमिति सन्मतिभिर्विभाव्यम् ॥
 

इति श्रीशंकरमिश्रविरचितायां गीतगोविन्दटीकायां रसमञ्जर्या
यां
नवमः सर्गः ॥
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri