2022-10-18 04:14:18 by ambuda-bot
This page has not been fully proofread.
सर्ग: ९] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् १२७
सुरवृन्दमौलीन्द्रनीलमणीनां भृङ्गोपमा । एवं चरणसरोजे मकरन्दजुषो नमत्सुरमौलि -
नीलमणिव्याजेन भृङ्गा इव । किंविशिष्टैर्दिविषद्वृन्दैः अमन्दादरात्प्रचुरादरवशतः
आनम्रैः साष्टाङ्गप्रणिपातप्रवणैः । शार्दूलविक्रीडितम् ॥ ३ ॥
एवं कृत्वा हृदीशं द्वितयमथ नये सारमासाद्य तिस्रः
सम्यग्योगं चतुर्णां निपुणतरधिया पञ्च जिला विदित्वा ।
षट्कं हिलाथ सप्ताष्टकुलगिरिबलो गीतगोविन्दसर्ग
सूक्त्या कृत्वा निसर्गोज्वलमिव नवमं कुम्भकर्णो जयी स्वात् ॥
इति श्रीकुम्भकर्णविरचितायां गीतगोविन्दटीकायां रसिकप्रियायां कलहान्तरि
तावर्णने मुग्धमुकुन्दो नाम नवमः सर्गः ॥
यातनाः तीव्रवेदनाः । यस्तस्मिन्विपरीतमाचरति तस्य सर्वं विपरीतमेव भवतीति भावः ।
'परुषं कर्बुरे रूक्षे स्यान्निष्ठुरवचस्यपि ।' इति विश्वः । 'यातना तीव्रवेदना' इत्यमरः ॥ २ ॥
( अत्र सान्द्रानन्देति श्लोकस्य टीका नोपलभ्यते आदर्शपुस्तके ॥ ३ ॥)
वात्स्यायनादिमतसंमतमत्र किंचि-
द्यत्कोषजातमथ शब्दनयप्रमेयम् ।
यच्चाप्यलंकृतिरहस्यमलेखि तत्त-
चाम्नायमूलमिति सन्मतिभिर्विभाव्यम् ॥
इति श्रीशंकरमिश्रविरचितायां गीतगोविन्दटीकायां रसमञ्जर्या
नवमः सर्गः ॥
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri