This page has not been fully proofread.

१२६
 
गीतगोविन्दकाव्यम्
 
तद्युक्तं विपरीतकारिणि तव श्रीखण्डचर्चा विपं
 
शीतांशुस्तपनो हिमं हुतवहः क्रीडामुदो यातनाः ॥ २ ॥
सान्द्रानन्दपुरंदरादिदिविषद्वृन्दैरमन्दादरा-
दानम्रैर्मुकुटेन्द्रनीलमणिभिः संदर्शितेन्द॑िन्दिरम् ।
स्वच्छन्दं मकरन्दसुन्दरमिलॅन्मन्दाकिनीमे दुरं
श्रीगोविन्दपदारविन्दमशुभस्कन्दाय वन्दामहे ॥ ३ ॥
इति श्रीगीतगोविन्दे कलहान्तरितावर्णने मुग्धमुकुन्दो
नाम नवमः सर्गः ॥ ९ ॥
 
[ सर्ग: ९
 
तकारिणि विपरीतकृतप्रतिकरणशीले, यत्तव श्रीखण्डचर्चा चन्दनानुलेपो विषमिव
भवति । यच्च शीतांशुश्चन्द्रः तपन इव भवति । यच्च हिमं नीहारो हुतवह इव भव-
ति । यंच क्रीडामुदः केलिप्रमोदास्तीत्रवेदना इव भवन्ति । एतद्युक्तम् । विपरीतं य
आचरति तस्य सर्वं विपरीतमेव भवति । तदेव विपरीतमाचरणं दर्शयति । यत्तस्मि-
न्नपि तादृशप्रियकारिण्यपि हरौ स्निग्धे सस्नेहे रूक्षासि । सस्नेहे स्नेहराहित्यं वैपरीत्यम् ।
यच्च प्रणमति नतिशीले प्रिये स्तब्धासि । प्रणमत्यप्रवणत्वं वैपरीत्यम् । यच्च रागवति
प्रद्वेषिण्यसि । अत्रापि तादृगेव वैपरीत्यम् । यच्च संमुखे प्रिये वैमुख्यं यातासि ।
संमुखे विमुखभावो वैपरीत्यम् । अत्र शार्दूलविक्रीडितं वृत्तम् । विरोधालंकारः ॥२॥
इदानीं सर्गान्ते सर्वविघ्नोपशमनार्थं गोविन्दं प्रणमति – सान्द्रेति । श्रीगोविन्दप-
दारविन्दं वन्दामहे नमस्कुर्महे । किमर्थम् । अशुभस्कन्दाय अशुभनाशाय । किंवि-
शिष्टम् । स्वच्छन्दं यथा स्यात्तथा मकरन्दसुन्दरा मकरन्दसदृशी गलन्ती या मन्दा-
किनी गङ्गा तथा सान्द्रं स्निग्धम् । अरविन्दे हि मकरन्दो भवति । तेन मन्दाकिनी
उपमीयते इत्युपमालंकारः । पुनः किंभूतम् । सान्द्रानन्दा निबिडहर्षा ये पुर-
न्दरादिदिविषदस्तेषां वृन्दैः मुकुटेन्द्रनीलमणिभिः संदर्शिता इन्दिन्दिरा मधुपा
यत्र तत्तथा । अत्र चरणयोः कमलोपमा । मन्दाकिन्याः मकरन्दोपमा
 
प्रकटयति सति परुषासि निष्ठुरभाषिण्यसि । यच्च प्रणमति तस्मिन्स्तब्धासि । यच्च रागि-
ण्यनुरागवति तस्मिंस्त्वं द्वेषस्थासि द्वेषमवलम्ब्य स्थितासि । यच्चोन्मुखे आलिङ्गनाय
तस्मिंस्त्वं विमुखतां यातासि पराङ्मुखतां गतासि । ततो विपरीतकारिणि, एतत्सर्वं
विपरीतमेव । एतत्किंन् । तव श्रीखण्डचर्चा चन्दनलेपो विषम् । यथा विषं भोक्तारं
मूर्च्छयति तथा चन्दनलेपोऽन्येषां सुखदोऽपि त्वां मूर्च्छयतीति भावः । अथ च
शीतांशुस्तपनः सूर्यः। अन्येषां शीतलस्वभावोऽपि चन्द्रस्त्वयि तापप्रदत्वात्तपन इति भावः ।
हिमं तुषारोऽपि हुतवद्दोऽग्निः । अथ च क्रीडामुद: सखीक्रीडाजन्या मुदः प्रमोदा
 
१ 'न्दीवरम्' इति पाठः । २ 'गलन्' इति पाठः ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri