This page has been fully proofread once and needs a second look.

जनयसि मनसि किमिति गुरुखेदम्
शृणु मम वचनमनीहितभेदम् ॥ माध० ॥ ६ ॥
 
हरिरुपयातु वदतु बहुमधुरम् ।
किमिति करोषि हृदयमतिविधुरम् ॥ माध० ॥ ७ ॥
 
श्रीजयदेवभणितमतिललितम् ।
सुखयतु रसिकजनं हरिचरितम् ॥ माध० ॥ ८ ॥
 
स्निग्धे यत्परुषासि यत्प्रणमति स्तब्धासि यद्रागिणि
द्वेषस्थासि यदुन्मुखे विमुखतां यातासि तस्मिन्प्रिये ।
 
<pratika>जलेति ।</pratika>अत एव नयने सफलय ॥ ५ ॥ अपि च । <pratika>जनयसीति ।</pratika> हे राधे,
इत्येवं पूर्वोक्तप्रकारेण मनसि चित्ते महान्तं खेदं किं जनयसि । तर्हि किं किं विधे-
यमित्याशङ्क्याह -- मम वचनं शृणु । किंभूतम् । अनीहितभेदम् । न ईहितश्चेप्सितो
भेदः पार्थक्यं येन तत्तथा ॥ ६ ॥ अपि च । <pratika>हरिरूपयात्विति ।</pratika> हे राधे हरि-
रुपयातु त्वत्समीपमायातु । बहुविस्तरं मधुरं चाटु वदतु । अनया रीत्या हृदयमति-
विधुरं किं करोषि ॥ ७ ॥ अपि च । <pratika>श्रीजयदेवभणितमिति ।</pratika> हरिचरितं रसि-
कजनं सुखयतु । किंभूतम् । श्रीजयदेवभणितम् । पुनः किंभूतम् । अतिललितम् ।
श्रुतिजातिग्रहलयसाम्यान्मनोहरम् । तथा च संगीतराजे -- "नट्टरागस्तृतीयाख्यस्तालो
मध्ये क्वचित् क्वचित् । पदानां शोभयालापगुम्फानां गानहेतुकम् ॥ अन्ते पाटाः
स्वरास्तेनास्तदन्ते पद्यगुम्फनम् । पद्यामन्दमुकुन्दाद्यमकरन्दाभिधानवत् । प्रबन्धः
प्रीतये गीतः श्रीपतेः कुम्भभूभुजा ॥" इति श्रीअमन्दमुकुन्दो नामाष्टादशः प्रबन्धः ॥
यदि कौतुकिनो गाने संगीते चातुरी यदि । रसिकाः कुम्भकर्णस्य शृण्वन्तु बुधसत्तमाः
॥८॥ सखी तद्दुश्चेष्टितमनुवदन्ती तां राधां प्रति बोधयति -- <pratika>स्निग्ध इति ।</pratika> हे विपरी-
 
एव नयने नेत्रे सफलय कृतार्थय । यद्वा सजलेति सप्तमी । तथा च त्वया रचितं यत्स-
जलनलिनीदलशीतलशयनं तत्रोपविष्टं हरिमवलोकयेत्यर्थः । तथा च सत्कारपूर्वकं शयने
उपवेश्य हरिं पश्येति भावः ॥ ५ ॥ <pratika>जनयसीति ।</pratika> तस्मान्मनसि चित्ते गुरुखेदं महद्दुःखं
किमिति जनयसि । मम वचनं "माधवे मानं मा कुरु" इति मम वाक्यं शृणु ।
कीदृशम् । अनीहितोऽनाकाङ्क्षितो युवयोर्भेद उपजाप एतादृशम् । तथा च मम वचनं
युवयोः प्रीतिकारकं तदवश्यं त्वया श्रोतव्यमिति भावः । मया सह नाकाङ्क्षितं भेदं यथा
स्यादेवं मम वचनं शृणु । इयं सखी मत्तोऽभिन्ना, मदनिष्टं न भवतीति बुद्ध्या मद्वचनं
शृण्विति भावः ॥ ६ ॥ <pratika>हरिरिति ।</pratika> हरिः कृष्ण उपयातु त्वदन्तिकं गच्छतु ।
बहुमधुरमतिसरसं यथा स्यादेवं वदतु । हृदयं स्वकीयं हृदयमतिविधुरमतिदुःखितं किमिति
करोषि ॥ ७ ॥ <pratika>श्रीजयदेवेति ।</pratika> श्रीजयदेवेन भणितं वर्णितं ललितं मनोहरं
हरिचरितं रसिकजनं कृष्णभक्तिरसास्वादगृहीतं शृङ्गारादिरसास्वादपरं जनं सुखयतु
आनन्दयतु ॥ ८ ॥ <pratika>स्निग्ध इति ।</pratika>यद्यतो हेतोः स्निग्धे तस्मिन्प्रिये मधुरवचनैः स्नेहं