This page has been fully proofread once and needs a second look.

१२४
 
गीतगोविन्दकाव्यम्
 
तालफलादपि गुरुमतिसरसम् ।
 

किं विफलीकुरुषे कुचकलशम् ॥ माध० ॥ २ ॥

 
कति न कथितमिदमनुपदमचिरम्
 


मा परिहर हरिमतिशयरुचिरम् ॥ माध० ॥ ३ ॥

 
किमिति विषीदसि रोदिषि विकला ।
 

विहसति युवतिसभा तव सकला ॥ माध० ॥ ४ ॥

 
सजलनलिनदलशीतलशयने ।
 

हरिमवलोकय सफलय नयने ॥ माध० ॥ ५ ॥
 
[ सर्ग: ९
 

 
परमधिकं किं सुखम् । न किंचिदपीत्यर्थः । अत इति किम् । यन्मधोर्वसन्तस्य

पवने वहति वाति सति हरिरभिसरति स्वयमायाति ॥ १ ॥ अपि च । <pratika>ताल-

फलादिति ।</pratika> हे राधे, कुचकलशं किं विफलीकुरुषे । हरिकरतलस्पर्शविलासाभा-

वाद्विफलमित्यर्थः । तालफलादपि गुरुं कठिनं महान्तं च । पुनः कीदृशम् । अति-

शयेन सरसम् ॥ २ ॥ अपि च । <pratika>कति नेति ।</pratika> हे सखि, अतिशयरुचिरं हरिं मा

परिहर । इदं वचनमचिरं सांप्रतमनुपदं स्थाने स्थाने कतिवारं कथितम् ॥ ३ ॥ अपि

च । <pratika>किमितीति । </pratika>हे सखि, इति अमुना प्रकारेण किं विषादं कुरुषेऽतिविकला सती

किमिति रोदिषि । सकला युवतिसभा तव इति चेष्टितं हसति ॥४॥ अपि च । स-

 
इदमचिरं
 

 
सरणादन्यर्दिकत्किं सुखम् । अपि तु न किंचिदित्यर्थः । '"मधु क्षीरे जले क्षौद्रे मधे पुष्परसे मधुः ।

दैत्ये चैत्रे वसन्ते च जीवाशोके मधुद्रुमे ॥ '" इति विश्वः ॥ १ ॥ किंच । <pratika>तालेति ।
</pratika>
कुचकलशं कलशवत्पीनं मांसलं स्तनं किमिति विफली कुरुषे । कृष्णकरस्पर्शादेव कुचकलशयोः

साफल्यं तदभावे वैफल्यमिति भावः । तालफलापेक्षयापि गुरुं कठिनमतिसरसं च

रसः शृङ्गाराख्यस्तत्सहितम् । तालफलपक्षे रसो माधुर्यं तत्सहितम् । अतिमर्दनेन

वै रसप्रदत्वं भवति । अपरः कलशोऽपि पूर्ण:णः सन्गुरुर्भवति । रसो जलं तत्सहितश्च

भवतीत्यपि ध्वनितम् ॥ २ ॥ ननु यदा हरिरायातस्तदा त्वयापि नोक्तमित्यत आह -
-
<pratika>
कति नेति
</pratika>इदमचिरं सांप्रतमेवानुपदं स्थानं स्थानं प्रति मया कियन्न कथितमपि

तु बहु कथितम् । इदं किम् । हरिमतिशयरुचिरमतिशयेन मनोहरं मा परिहर

मोपेक्षस्व ॥ ३ ॥ <pratika>किमिति ।</pratika> त्वं किमिति किमर्थं विषीदसि विषण्णा भवसि । ननु

नास्मि विषण्णेत्यत आह -- <pratika>रोदिषीति ।</pratika> विकला विह्वला सती रोदिषि रोदनं करोषि ।

अत एव सकला समस्ता युवतिसभा हसतीति भावः । यद्वा इयं मानापनोदाय प्रणतमपि

प्रियमुपेक्ष्य संप्रति रोदितीति मानपरिपाटीं न जानासि । सकला चतुःषष्टिकलासहिता

युवतिसभा हसतीति भावः ॥ ४ ॥ तर्हि किमित्यत आह - - <pratika>सजलेति ।</pratika> हे

सजलनलिनदलशीतलशयने, जलसहितानि यानि नलिनीदलानि कमलिनीपत्राणि तेषां

शीतलं शयनं शय्या यस्यास्तादृशे, त्वं पुरःस्थितं हरिं कृष्णमवलोकय पश्य । अत
 
-
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri