This page has not been fully proofread.

१२४
 
गीतगोविन्दकाव्यम्
 
तालफलादपि गुरुमतिसरसम् ।
 
किं विफलीकुरुषे कुचकलशम् ॥ माध० ॥ २ ॥
कति न कथितमिदमनुपदमचिरम्
 

मा परिहर हरिमतिशयरुचिरम् ॥ माध० ॥ ३ ॥
किमिति विषीदसि रोदिषि विकला ।
 
विहसति युवतिसभा तव सकला ॥ माध० ॥ ४ ॥
सजलनलिनदलशीतलशयने ।
 
हरिमवलोकय सफलय नयने ॥ माध० ॥ ५ ॥
 
[ सर्ग: ९
 
परमधिकं किं सुखम् । न किंचिदपीत्यर्थः । अत इति किम् । यन्मधोर्वसन्तस्य
पवने वहति वाति सति हरिरभिसरति स्वयमायाति ॥ १ ॥ अपि च । ताल-
फलादिति । हे राधे, कुचकलशं किं विफलीकुरुषे । हरिकरतलस्पर्शविलासाभा-
वाद्विफलमित्यर्थः । तालफलादपि गुरुं कठिनं महान्तं च । पुनः कीदृशम् । अति-
शयेन सरसम् ॥ २ ॥ अपि च । कति नेति । हे सखि, अतिशयरुचिरं हरिं मा
परिहर । इदं वचनमचिरं सांप्रतमनुपदं स्थाने स्थाने कतिवारं कथितम् ॥ ३ ॥ अपि
च । किमितीति । हे सखि, इति अमुना प्रकारेण किं विषादं कुरुषेऽतिविकला सती
किमिति रोदिषि । सकला युवतिसभा तव इति चेष्टितं हसति ॥४॥ अपि च । स-

 
इदमचिरं
 
सरणादन्यर्दिक सुखम् । अपि तु न किंचिदित्यर्थः । 'मधु क्षीरे जले क्षौद्रे मधे पुष्परसे मधुः ।
दैत्ये चैत्रे वसन्ते च जीवाशोके मधुद्रुमे ॥ ' इति विश्वः ॥ १ ॥ किंच । तालेति ।
कुचकलशं कलशवत्पीनं मांसलं स्तनं किमिति विफली कुरुषे । कृष्णकरस्पर्शादेव कुचकलशयोः
साफल्यं तदभावे वैफल्यमिति भावः । तालफलापेक्षयापि गुरुं कठिनमतिसरसं च
रसः शृङ्गाराख्यस्तत्सहितम् । तालफलपक्षे रसो माधुर्यं तत्सहितम् । अतिमर्दनेन
वै रसप्रदत्वं भवति । अपरः कलशोऽपि पूर्ण: सन्गुरुर्भवति । रसो जलं तत्सहितश्च
भवतीत्यपि ध्वनितम् ॥ २ ॥ ननु यदा हरिरायातस्तदा त्वयापि नोक्तमित्यत आह -
कति नेति
सांप्रतमेवानुपदं स्थानं स्थानं प्रति मया कियन्न कथितमपि
तु बहु कथितम् । इदं किम् । हरिमतिशयरुचिरमतिशयेन मनोहरं मा परिहर
मोपेक्षस्व ॥ ३ ॥ किमिति । त्वं किमिति किमर्थं विषीदसि विषण्णा भवसि । ननु
नास्मि विषण्णेत्यत आह — रोदिषीति । विकला विह्वला सती रोदिषि रोदनं करोषि ।
अत एव सकला समस्ता युवतिसभा हसतीति भावः । यद्वा इयं मानापनोदाय प्रणतमपि
प्रियमुपेक्ष्य संप्रति रोदितीति मानपरिपाटीं न जानासि । सकला चतुःषष्टिकलासहिता
युवतिसभा हसतीति भावः ॥ ४ ॥ तर्हि किमित्यत आह - सजलेति । हे
सजलनलिनदलशीतलशयने, जलसहितानि यानि नलिनीदलानि कमलिनीपत्राणि तेषां
शीतलं शयनं शय्या यस्यास्तादृशे, त्वं पुरःस्थितं हरिं कृष्णमवलोकय पश्य । अत
 
-
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri