2022-11-12 07:29:51 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
<bold>नवमः सर्गः ९</bold>
मुग्धमुकुन्दः ।
ता[^१]मथ मन्मथखिन्नां रतिरसभिन्नां विषादसंपन्नाम् ।
अनुचिन्तितहरिचरितां कलहान्तरितामुवाच रहसि सखी ॥ १ ॥
<bold>गुर्जरीरागयतितालाभ्यां गीयते । प्र० ॥ १८ ॥</bold>
हरिरभिसरति वहति मधुपवने
किमपरमधिकसुखं सखि भवने ॥ १ ॥
माधवे मा कुरु मानिनि मानमये ॥ ध्रुवम् ॥
इदानीं प्रणयकोपाद्धरिमधिक्षिप्य कलहान्तरितत्वेनोपतप्यमानां राधां सख्याह --
<pratika>तामथेति ।</pratika> अथ सखी तामुवाच । किंभूताम् । मन्मथखिन्नाम् । पुनः किंभूताम् ।
संभोगरागेण भावशबलतां प्राप्ताम् । पुनः किंभूताम् । विषादसंपन्नाम् । पुनः
किंभूताम् । अनुध्यातहरिचेष्टिताम् । पुनः किंभूताम् । कलहान्तरिताम् । तल्लक्षणं
यथा -- "प्राणेश्वरं प्रणयकोपविशेषभीतं या चाटुकारमवधीर्य विशेषवाग्भिः । संत-
प्यते मदनवह्निशिखासमूहैर्बाष्पाकुलेह कलहान्तरिता हि सा स्यात्" ॥ इयं पथ्या
आर्या । तामथेत्यादिषु अनुकूलो नायकः । प्रौढधीरा मानवती नायिका । सखी
दूती च ॥ १ ॥ तदेव वक्ष्यमाणमाह -- <pratika>हरिरभीति ।</pratika> तत्र पूर्वं ध्रुवः । <pratika>माधव
इति । </pratika>अये राधे मानवति । अनुच समर्थनायिकानाथे । इति ध्रुवः । अथ
पदानि हरिरिति -- हे सखि राधे, भवने गृहे । अपरमिति सावधिको निर्देशः । अतः
पूर्वसर्गे खण्डिताया राधायाश्चरितमुक्तम् । संप्रति पश्चात्तापयुक्तां तां सख्युवाचेत्याह --
<pratika>अथेति ।</pratika> अथ अनन्तरं कलहान्तरितां परुषवचनानन्तरं कृतपश्चात्तापां राधां रहसि
एकान्ते सखी उवाच उक्तवती । कीदृशीम् । मन्मथेन कामेन खिन्नां दुःखिताम् । अत
एव रतिरसेन शृङ्गाररसेन भिन्नां संगताम् । अत एव विषादसंपन्नामुद्वेगसहिताम् ।
अत एवानुचिन्तितं स्मृतं हरेश्चरितं पुरा रहोविलसितं यया ताम् । "भिन्नमन्यार्थवचने
संगते दारिते स्फुटे" इति विश्वः । कलहान्तरिता चेयम् -- "प्राणेश्वरं प्रणयकोपभरेण भीतं या
चाटुकारमवधीर्य विशेषवाग्भिः । संतप्यते मदनवह्निशिखासहस्रैर्बाष्पाकुला च कलहान्तरिता
हि सा स्यात् ॥" इति ॥ १ ॥ तदेव गीतेन कथयति -- <pratika>हरिरिति ।</pratika> गीतस्यास्य
गुर्जरीरागो यतितालश्च । गीतार्थस्तु -- अये इति संभ्रमे । हे मानिनि मानवति, माधवे
लक्ष्मीपतौ मानं मा कुरु । लक्ष्मीपतिरपि त्वां प्रसादयत्यहो भाग्यमित्यवश्यं त्वया
मानस्त्याज्य इति सूचनाय माधवपदोपादानम् । मृदुपवने वसन्तवायौ वहति सति हरिः
कृष्णोऽभिसरति त्वदीयसंकेतभूमिमागच्छति । हे सखि, भुवने त्रैलोक्येऽपरं कृष्णाभि-
[^१.] "अथ तां" इति पाठः । [^२.] "रामकरी" इति पाठः ।