2022-11-07 06:28:33 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
<bold>नवमः सर्ग:गः ९] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् १२३
नवमः सर्ग: ९
</bold>
मुग्धमुकुन्दः ।
ती
ता[^१]मथ मन्मथखिन्नां रतिरसभिन्नां विषादसंपन्नाम् ।
अनुचिन्तितहरिचरितां कलहान्तरितामुवाच रहसि सखी ॥ १ ॥
<bold>गुर्जरीरागयतितालाभ्यां गीयते । प्र० ॥ १८ ॥
</bold>
हरिरभिसरति वहति मधुपवने
किमपरमधिकसुखं सखि भवने ॥ १ ॥
माधवे मा कुरु मानिनि मानमये ॥ ध्रुवम् ॥
इदानीं प्रणयकोपाद्धरिमधिक्षिप्य कलहान्तरितत्वेनोपतप्यमानां राधां सख्याह-
--
<pratika>तामथेति ।</pratika> अथ सखी तामुवाच । किंभूताम् । मन्मथखिन्नाम् । पुनः किंभूताम् ।
संभोगरागेण भावशबलतां प्राप्ताम् । पुनः किंभूताम् । विषादसंपन्नाम् । पुनः
किंभूताम् । अनुध्यातहरिचेष्टिताम् । पुनः किंभूताम् । कलहान्तरिताम् । तल्लक्षणं
यथा– '-- "प्राणेश्वरं प्रणयकोपविशेषभीतं या चाटुकारमवधीर्य विशेषवाग्भिः । संत-
प्यते मदनवह्निशिखासमूहैर्बाष्पाकुलेह कलहान्तरिता हि सा स्यात्'" ॥ इयं पथ्या
आर्या । तामथेत्यादिषु अनुकूलो नायकः । प्रौढधीरा मानवती नायिका । सखी
दूती च ॥ १ ॥ तदेव वक्ष्यमाणमाह - - <pratika>हरिरभीति ।</pratika> तत्र पूर्वं ध्रुवः । <pratika>माधव
इति । </pratika>अये राधे मानवति । अनुच समर्थनायिकानाथे । इति ध्रुवः । अथ
पदानि हरिरिति—-- हे सखि राधे, भवने गृहे । अपरमिति सावधिको निर्देशः । अतः
-
पूर्वसर्गे खण्डिताया राधायाश्चरितमुक्तम् । संप्रति पश्चात्तापयुक्तां तां सख्युवा चेत्याह-
--
<pratika>अथेति ।</pratika> अथ अनन्तरं कलहान्तरितां परुषवचनानन्तरं कृतपश्चात्तापां राधां रहसि
एकान्ते सखी उवाच उक्तवती । कीदृशीम् । मन्मथेन कामेन खिन्नां दुःखिताम् । अत
एव रतिरसेन शृङ्गाररसेन भिन्नां संगताम् । अत एव विषादसंपन्नामुद्वेगसहिताम् ।
अत एवानुचिन्तितं स्मृतं हरेश्चरितं पुरा रहोविलसितं यया ताम् ।'"भिन्नमन्यार्थवचने
संगते दारिते स्फुटे'" इति विश्वः । कलहान्तरिता चेयम्–' -- "प्राणेश्वरं प्रणयकोपभरेण भीतं या
चाटुकारमवधीर्य विशेषवाग्भिः । संतप्यते मदनवह्निशिखासहस्रैर्वाबाष्पाकुला च कलहान्तरिता
हि सा स्यात् ॥'" इति ॥ १ ॥ तदेव गीतेन कथयति — हरिरिति ।-- <pratika>हरिरिति ।</pratika> गीतस्यास्य
गुर्जरीरागो यतितालश्च । गीतार्धथस्तु –-- अये इति संभ्रमे । हे मानिनि मानवति, माधवे
लक्ष्मीपतौ मानं मा कुरु । लक्ष्मीपतिरपि त्वां प्रसादयत्यहो भाग्यमित्यवश्यं त्वया
मानस्त्याज्य इति सूचनाय माधवपदोपादानम् । मृदुपवने वसन्तवायौ वहति सति हरिः
कृष्णोऽभिसरति त्वदीयसंकेतभूमिमागच्छति । हे सखि, भुवने त्रैलोक्येऽपरं कृष्णाभि-
[^१ ' .] "अथ तां'" इति पाठः । [^२ '.] "रामकरी'" इति पाठः ।
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri
नवमः सर्ग: ९
मुग्धमुकुन्दः ।
ती
ता[^१]मथ मन्मथखिन्नां रतिरसभिन्नां विषादसंपन्नाम् ।
अनुचिन्तितहरिचरितां कलहान्तरितामुवाच रहसि सखी ॥ १ ॥
<bold>गुर्जरीरागयतितालाभ्यां गीयते । प्र० ॥ १८ ॥
हरिरभिसरति वहति मधुपवने
किमपरमधिकसुखं सखि भवने ॥ १ ॥
माधवे मा कुरु मानिनि मानमये ॥ ध्रुवम् ॥
इदानीं प्रणयकोपाद्धरिमधिक्षिप्य कलहान्तरितत्वेनोपतप्यमानां राधां सख्याह
<pratika>तामथेति ।</pratika> अथ सखी तामुवाच । किंभूताम् । मन्मथखिन्नाम् । पुनः किंभूताम् ।
संभोगरागेण भावशबलतां प्राप्ताम् । पुनः किंभूताम् । विषादसंपन्नाम् । पुनः
किंभूताम् । अनुध्यातहरिचेष्टिताम् । पुनः किंभूताम् । कलहान्तरिताम् । तल्लक्षणं
यथा
प्यते मदनवह्निशिखासमूहैर्बाष्पाकुलेह कलहान्तरिता हि सा स्यात्
आर्या । तामथेत्यादिषु अनुकूलो नायकः । प्रौढधीरा मानवती नायिका । सखी
दूती च ॥ १ ॥ तदेव वक्ष्यमाणमाह -
इति । </pratika>अये राधे मानवति । अनुच समर्थनायिकानाथे । इति ध्रुवः । अथ
पदानि हरिरिति
-
पूर्वसर्गे खण्डिताया राधायाश्चरितमुक्तम् । संप्रति पश्चात्तापयुक्तां तां सख्युवा
<pratika>अथेति ।</pratika> अथ अनन्तरं कलहान्तरितां परुषवचनानन्तरं कृतपश्चात्तापां राधां रहसि
एकान्ते सखी उवाच उक्तवती । कीदृशीम् । मन्मथेन कामेन खिन्नां दुःखिताम् । अत
एव रतिरसेन शृङ्गाररसेन भिन्नां संगताम् । अत एव विषादसंपन्नामुद्वेगसहिताम् ।
अत एवानुचिन्तितं स्मृतं हरेश्चरितं पुरा रहोविलसितं यया ताम् ।
संगते दारिते स्फुटे
चाटुकारमवधीर्य विशेषवाग्भिः । संतप्यते मदनवह्निशिखासहस्रैर्
हि सा स्यात् ॥
गुर्जरीरागो यतितालश्च । गीतार्

[^१
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri