This page has been fully proofread once and needs a second look.

१२२
 
[ सर्गः ८
 
दृप्यद्दानवदूयमानदिविषद्दुर्वारदुःखापदां
 

भ्रंशः कंसरिपोर्विपोल[^१]यतु वः श्रेयांसि वंशीरवः ॥ ३ ॥

 
इति श्रीगीतगोविन्दे खण्डितावर्णने विलक्ष्यलक्ष्मी-

पतिर्नाम अष्टमः सर्गः ॥ ८ ॥
 
गीतगोविन्दकाव्यम्
 

 
नमिति वशीकारः । वशीकृता हि देवताः साधु साध्विति शिरोधूननेन प्रशंसन्ति ।

चलन्ति यानि मन्दारकुसुमानि तेषां विभ्रंशनम् । एतावता मारणमुद्दिष्टम् । मारणे

हि कुसुमस्रजां भ्रंशो जायते । स्तम्भाकर्षणं सिद्धम् । दृप्तिर्वाबाधा । उच्चाटन मिति

यावत् । एतेषां योगः । एतावता वंशीरवस्य मृगीदृशां संबन्धि षट्कर्मसाधनमहा-

मन्त्रत्वमुक्तम् । वंशं श्रुत्वा मृगीदृशस्त्रां तामवस्थां प्राप्नुवन्तीत्यर्थः ॥ ३ ॥

उद्यन्नष्टकुलाचलप्रतिनिधिः कीर्तिव्रजापूरिता-

ष्टाशोऽष्टद्रुहिणश्रुतिप्रतिहतिप्रक्रान्त मेभेरीरवः ।

स्फूर्जच्छौर्यजिताष्टदिक्पतिरसौ श्रीकुम्भकर्णो व्यधा-

त्सर्गस्याष्टमितस्य चारुविवृतिं भक्तोऽष्टमूर्तेरिमाम् ॥

इति श्री रसिकप्रियानाम्नि श्रीगीतगोविन्द विवरणे म्लेच्छवनीदावानल-

महाराज श्री श्रीकुम्भकर्णविरचितेऽष्टमः सर्गः ॥ ८ ॥
 

 
प्रतिबिम्बार्कयोषितोः । पालनोत्कोचयोः कान्तिसच्छोभापङ्क्षुितिषु स्मृता ॥'" इति विश्वप्रकाशः

॥ २ ॥ ( अन्तर्मोहनेत्यादिश्लोकटीका नोपलभ्यते लब्धादर्शपुस्तके ) ॥ ३ ॥

इति श्रीमहामहोपाध्याय श्रीशंकर मिश्रविरचितायां श्री शालिनाथकारितायां

गीतगोविन्दटीकायां रसमञ्जरीसमाख्यायामष्टमः सर्गः ॥ ८ ॥
 

 
[^
'.] "रिपोर्व्यपोहयतु वोऽश्रेयांसि '" इति पाठः ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri