This page has not been fully proofread.

१२२
 
[ सर्गः ८
 
दृप्यद्दानवदूयमानदिविषद्दुर्वारदुःखापदां
 
भ्रंशः कंसरिपोर्विपोलयतु वः श्रेयांसि वंशीरवः ॥ ३ ॥
इति श्रीगीतगोविन्दे खण्डितावर्णने विलक्ष्यलक्ष्मी-
पतिर्नाम अष्टमः सर्गः ॥ ८ ॥
 
गीतगोविन्दकाव्यम्
 
नमिति वशीकारः । वशीकृता हि देवताः साधु साध्विति शिरोधूननेन प्रशंसन्ति ।
चलन्ति यानि मन्दारकुसुमानि तेषां विभ्रंशनम् । एतावता मारणमुद्दिष्टम् । मारणे
हि कुसुमस्रजां भ्रंशो जायते । स्तम्भाकर्षणं सिद्धम् । दृप्तिर्वाधा । उच्चाटन मिति
यावत् । एतेषां योगः । एतावता वंशीरवस्य मृगीदृशां संबन्धि षट्कर्मसाधनमहा-
मन्त्रत्वमुक्तम् । वंशं श्रुत्वा मृगीदृशस्त्रां तामवस्थां प्राप्नुवन्तीत्यर्थः ॥ ३ ॥
उद्यन्नष्टकुलाचलप्रतिनिधिः कीर्तिव्रजापूरिता-
ष्टाशोऽष्टद्रुहिणश्रुतिप्रतिहतिप्रक्रान्त मेरीरवः ।
स्फूर्जच्छौर्यजिताष्टदिक्पतिरसौ श्रीकुम्भकर्णो व्यधा-
त्सर्गस्याष्टमितस्य चारुविवृतिं भक्तोऽष्टमूर्तेरिमाम् ॥
इति श्री रसिकप्रियानाम्नि श्रीगीतगोविन्द विवरणे म्लेच्छवनीदावानल-
महाराज श्री कुम्भकर्णविरचितेऽष्टमः सर्गः ॥ ८ ॥
 
प्रतिबिम्बार्कयोषितोः । पालनोत्कोचयोः कान्तिसच्छोभापङ्क्षुि स्मृता ॥' इति विश्वप्रकाशः
॥ २ ॥ ( अन्तर्मोहनेत्यादिश्लोकटीका नोपलभ्यते लब्धादर्शपुस्तके ) ॥ ३ ॥
इति श्रीमहामहोपाध्याय श्रीशंकर मिश्रविरचितायां श्री शालिनाथकारितायां
गीतगोविन्दटीकायां रसमञ्जरीसमाख्यायामष्टमः सर्गः ॥ ८ ॥
 
१ 'रिपोर्व्यपोहयतु वोऽश्रेयांसि ' इति पाठः ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri