2022-10-18 04:14:17 by ambuda-bot
This page has not been fully proofread.
सर्ग: ८ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् १२१
my
तवेदं पश्यन्त्याः प्रसरदनुरागं बहिरिव
प्रियापादालक्तच्छुरितमरुणद्योति हृदयम् ।
ममाद्य प्रख्यातप्रणयभरभङ्गेन कितव
त्वदालोकः शोकादपि किमपि लज्जां जनयति ॥ २ ॥
अन्तर्मोहन मौलिघूर्णनंचलन्मन्दार विभ्रंशन-
स्तम्भाकर्षणहप्तिहर्षणमहामन्त्रः कुरङ्गीदृशाम् ।
योजिता धातुवरेण भगत रसरताः ॥ ८ ॥ इदानीं खण्डितापि प्रौढत्वमालम्ब्य
तमधिक्षिपति–तवेदमिति । हे कितव, वदालोकोऽद्य मम शोकादपि किमपि
अधिकतरां लज्जां जनयति । त्वद्दर्शनेन शोकं पराकृत्य लज्जैवाधिकाभूत् । तत्र पूर्व
शोके कारणमाह — प्रख्यातस्य जगद्विदितस्य स्नेहातिशयस्य भङ्गेन । ततो लज्जां प्रति
हेतुगर्भं विशेषणमाह । किंभूताया मम । तवेदं हृदयं पश्यन्त्याः । किंभूतं हृदयम् ।
प्रियायाः यावककर्बुरितम् । अत एवारुणयोति अरुणस्य द्योत इव द्योतो विद्यते
यस्य तत्तथा । अरुणवत्सन्ध्यारागवद्द्योतनशीलं वा । उत्प्रेक्षते । बहिः प्रसरदनु -
रागमिव बहिः प्रसरन्नलक्तकव्याजेन तदनुरागो यस्मिन् । बहुमानपुरःसरमुपभो-
गयोग्यस्य कौस्तुभस्य प्रेष्यापादाहतिर्लज्जाधिक्ये हेतुः । तव प्रेष्योपभोगे लज्जापि
नास्तीति व्यङ्ग्यम् । अत्र शिखरिणीवृत्तम् ॥ २ ॥ इदानीं सर्गान्ते मङ्गलाचरणा-
शिषमाह - अन्तर्मोहनेति । कंसारे: श्रीकृष्णस्य वंशीरवः पाविकाध्वनिः वो
युष्माकं श्रेयांसि विपोलयतु विपुलीकरोतु । किंभूतो वंशीरवः । दृप्यद्दानवदूयमान दिवि-
षहुर्वारदुःखापदां भ्रंशः दृप्यद्भिर्दानवैर्दूयमाना ये दिविषदस्तेषां दुर्वारदुःखापत्रँशहे-
तुत्वाद्रंशः । पुनः किंभूतः । कुरङ्गीदृशामन्तर्मोहन मौलिघूर्णन चलन्मन्दार विभ्रंशन स्त-
म्भाकर्षणदृप्तिहर्षणमहामन्त्रः । अन्तर्मोहनेत्यादिदृप्तिपदान्तो द्वन्द्वः । तेषां संहर्षो
योगः तत्र महामन्त्र इव । अन्तर्मोहनं मनोमोहनम् । अनेन मोहनं मौलिघूर्ण-
सार्वविभक्तिकस्तसिरिति नियमात् ॥ ८ ॥ तवेदमिति । हे कितव धूर्त, त्वदालोकस्तव
दर्शनम् । प्रख्यातः प्रसिद्धो यः प्रणयभरोऽनुरागातिशयस्तस्य भङ्गेन नाशेन हेतुना
शोकादिदुःखादपि किमप्यनिर्वचनीयां लज्जां जनयति । कीदृश्या मे । तवेदं प्रत्यक्षं
हृदयं पश्यन्त्याः । कीदृशम् । प्रियापादालक्तकैः प्रियायाश्चरणसंबन्धियावकैर्व्याप्तम् । अत
एवारुणच्छायमरुणा छाया दीप्तिर्यस्य तादृशम् । किमिव । बहिः प्रसरदनुरागमिव हृदयं
परिपूर्णांधिक्याद्वहिः निःसरत् । प्रेम्णैव या राधा पूर्वं सौभाग्यगर्वेण न कांचन गणयति
स्म सा इदानीं समक्षमन्यनायिकाचरणालक्तकं हृदयं पश्यन्ती जीवत्येवेति विपक्षयुवती-
परिहासशङ्कया शोकादपि मेऽधिकलज्जा भवतीति भावः । 'छाया स्यादातपाभावे
१ 'रुणच्छायहृ' इति पाठः । २ 'वलन्मन्दार विस्रंसन' इति पाठः । ३ 'स्तब्धा-
कर्षणदृष्टिहर्षण' इति पाठः ।
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri