This page has been fully proofread once and needs a second look.

१२०
 
गीतगोविन्दकाव्यम्
 
भ्रमति भवानबलाकवलाय वनेषु किमन्त्र विचित्रम् ।

प्रथयति पूतनिकैव वधूवधनिर्दयबालचरित्रम् ॥ हरिहरि० ॥ ७ ॥

 
श्रीजयदेवभणितरतिवञ्चितखण्डित युवतिविलापम् ।
 

शृणुत सुधामधुरं विबुधा विबुधालयतोऽपि दुरापम् ॥ हरिहरि० ॥८॥
 
[ सर्गः ८
 
1
 

 
श्रितं भवन्तमधिकृत्यासमशरदूनं मल्लक्षणं जनं कथं वञ्चयसे । तद्वञ्चनादेव चित्तमपि

मलिनमनुमीयते । मलिना एवाचिश्रितवञ्चनां कुर्वन्तीति ॥ ६ ॥ अपि च । <pratika>भ्रमतीति ।
</pratika>
हे वधूवधे निर्दय, भवान्वनेषु अबलाकवलाय युवतीप्ग्रसनाय भ्रमति । सर्वाणि

वाक्यानि सावधारणान्येवेति । यथा पार्थो धनुर्धर इतिवत् । अत्र मद्वधे किं विचि-

त्रम् । ममाबलाया वधः सुकर एव पूतनिका अतियुद्धमदा कंसभगिन्येव तव बालच-

रित्रं प्रथयति । बालेन यदि तादृशी प्रबला कवलिता तर्ह्यस्या अबलायाः कवलने किमा-

श्चर्यम् । अत्र स्त्रीवधो निषिद्ध इति निन्दा । '"अथ कथमपि'" इत्यादौ खण्डिता नायिका ।

तल्लक्षणम् – '-- "ज्ञातेऽन्यासङ्गविकृते कान्ते कोपकषायिता । गत्वान्यत्रागते कान्ते भोग.
-
चिह्नैः कषायिता'" ॥ ७ ॥ अपि च । <pratika>श्रीजयदेवेति ।</pratika> हे विबुधाः, श्री जयदेवेन

भणितम भिलाषवञ्चित खण्डित युवतिविलापं शृणुत । किंभूतम् । सुधामधुरम् ।

पुनः किंभूतम् । स्वर्गेऽपि दुरापम् । सप्तम्यर्थे तसिः ॥ खण्डितालक्षणं यथा-
'
--
"
निद्राकषायमुकुलीकृतताम्रनेत्रो नारीनखत्व्रण विशेष विचित्रिताङ्गः । यस्याः कुतोऽपि

पतिरेति गृहं प्रभाते सा खण्डितेति कथिता कविभिः पुराणैः ॥'" तथा च संगी-

तराजे – '-- "तालो वर्णय तिर्मेघरागो देवादिवर्णनम् । विप्रलम्भाख्यशृङ्गारो रसः करुणवे-

दनम् । कविनामाङ्कितपदप्रान्ते पाटस्वरावलिः । द्वित्राण्यथ पदानि स्युरिति लक्ष्मीपतेः

पुरः । रत्नावलीप्रबन्धोऽयं निबद्धः कुम्भभूभुजा ॥'" इति लक्ष्मीपति रत्नावलीनामा

सप्तदशः प्रबन्धः ॥ पदरचना जयदेवोदिता कमलावल्लभगानोचिता । कुम्भनृपेण परं
 
-
 

 
रिवशब्दोऽपि तादृशः ॥" इति ॥ ६ ॥ चित्तमालिन्य मेवाह -- <pratika>भ्रमतीति ।</pratika> भवान्वनेषु

विपिनेष्वबलाकवलाय कामिनीग्रसनाय भ्रमति । अत्रार्थे किं चित्रम् । न किमपीत्यर्थः ।

तत्र हेतुमाह -- प्रथयति ख्यापयति 1 त्वयापि बाल्ये येन स्तनदानप्रवृत्ता

राक्षसी हता तस्य संप्रति कोमलाङ्गीनां मादृशां मारणे किं वक्तव्यमिति भावः ।

खण्डिता नायिका । तदुक्तं भरते — '-- "निद्राकषायकलुषीकृतताम्रनेत्रो नारीनखत्रणवि-

शेषविचित्रिताङ्गः । यस्याः कुतोऽपि गृहमेति पतिः प्रभाते सा खण्डितेति कथिता

कविभिः पुराणैः'" इति ॥ ७ ॥ <pratika>श्रीजयदेवेति ।</pratika> हे विबुधाः पण्डिताः, इमं जयदेवेन

कविना वर्णितं रतौ वञ्चितायाः प्रतारितायाः खण्डितायाः प्रातरागतान्यनायिकानखाङ्क-

चिह्नितप्रियाया विलापं परिदेवनं शृणुताकर्णयत । कीदृशम् । सुधातोऽपि मधुरम् ।

तत्र हेतुमाह -- <pratika>विबुधेति । </pratika>विबुधालयतोऽपि देवालयेऽपि दुरापं दुष्प्रापमित्यर्थः । सुधा

स्वर्गेऽपि सुलभा कृष्णकथामृतपानं तु तत्रापि दुर्लभ मिति सुधापेक्षयाधिक
माधुर्यमिति

भावः । '"विबुधः पण्डिते देवे'" इति विश्वः । सुरालयतोऽपीत्यत्र सप्तम्यर्थे तसिः ।
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri