This page has not been fully proofread.

१२०
 
गीतगोविन्दकाव्यम्
 
भ्रमति भवानबलाकवलाय वनेषु किमन्त्र विचित्रम् ।
प्रथयति पूतनिकैव वधूवधनिर्दयबालचरित्रम् ॥ हरिहरि० ॥ ७ ॥
श्रीजयदेवभणितरतिवञ्चितखण्डित युवतिविलापम् ।
 
शृणुत सुधामधुरं विबुधा विबुधालयतोऽपि दुरापम् ॥ हरिहरि० ॥८॥
 
[ सर्गः ८
 
1
 
श्रितं भवन्तमधिकृत्यासमशरदूनं मल्लक्षणं जनं कथं वञ्चयसे । तद्वञ्चनादेव चित्तमपि
मलिनमनुमीयते । मलिना एवाचितवञ्चनां कुर्वन्तीति ॥ ६ ॥ अपि च । भ्रमतीति ।
हे वधूवधे निर्दय, भवान्वनेषु अबलाकवलाय युवतीप्रसनाय भ्रमति । सर्वाणि
वाक्यानि सावधारणान्येवेति । यथा पार्थो धनुर्धर इतिवत् । अत्र मधे किं विचि-
त्रम् । ममाबलाया वधः सुकर एव पूतनिका अतियुद्धमदा कंसभगिन्येव तव बालच-
रित्रं प्रथयति । बालेन यदि तादृशी प्रबला कवलिता तर्ह्यस्या अबलायाः कवलने किमा-
श्चर्यम् । अत्र स्त्रीवधो निषिद्ध इति निन्दा । 'अथ कथमपि' इत्यादौ खण्डिता नायिका ।
तल्लक्षणम् – 'ज्ञातेऽन्यासङ्गविकृते कान्ते कोपकषायिता । गत्वान्यत्रागते कान्ते भोग.
चिह्नैः कषायिता' ॥ ७ ॥ अपि च । श्रीजयदेवेति । हे विबुधाः, श्री जयदेवेन
भणितम भिलाषवञ्चित खण्डित युवतिविलापं शृणुत । किंभूतम् । सुधामधुरम् ।
पुनः किंभूतम् । स्वर्गेऽपि दुरापम् । सप्तम्यर्थे तसिः ॥ खण्डितालक्षणं यथा-
'निद्राकषायमुकुलीकृतताम्रनेत्रो नारीनखत्रण विशेष विचित्रिताङ्गः । यस्याः कुतोऽपि
पतिरेति गृहं प्रभाते सा खण्डितेति कथिता कविभिः पुराणैः ॥' तथा च संगी-
तराजे – 'तालो वर्णय तिर्मेघरागो देवादिवर्णनम् । विप्रलम्भाख्यशृङ्गारो रसः करुणवे-
दनम् । कविनामाङ्कितपदप्रान्ते पाटखरावलिः । द्वित्राण्यथ पदानि स्युरिति लक्ष्मीपतेः
पुरः । रत्नावलीप्रबन्धोऽयं निबद्धः कुम्भभूभुजा ॥' इति लक्ष्मीपति रत्नावलीनामा
सप्तदशः प्रबन्धः ॥ पदरचना जयदेवोदिता कमलावल्लभगानोचिता । कुम्भनृपेण परं
 
-
 
रिवशब्दोऽपि तादृशः ॥" इति ॥ ६ ॥ चित्तमालिन्य मेवाह — भ्रमतीति । भवान्वनेषु
विपिनेष्वबलाकवलाय कामिनीग्रसनाय भ्रमति । अत्रार्थे किं चित्रम् । न किमपीत्यर्थः ।
तत्र हेतुमाह — प्रथयति ख्यापयति 1 त्वयापि बाल्ये येन स्तनदानप्रवृत्ता
राक्षसी हता तस्य संप्रति कोमलाङ्गीनां मादृशां मारणे किं वक्तव्यमिति भावः ।
खण्डिता नायिका । तदुक्तं भरते — 'निद्राकषायकलुषीकृतताम्रनेत्रो नारीनखत्रणवि-
शेषविचित्रिताङ्गः । यस्याः कुतोऽपि गृहमेति पतिः प्रभाते सा खण्डितेति कथिता
कविभिः पुराणैः' इति ॥ ७ ॥ श्रीजयदेवेति । हे विबुधाः पण्डिताः, इमं जयदेवेन
कविना वर्णितं रतौ वञ्चितायाः प्रतारितायाः खण्डितायाः प्रातरागतान्यनायिकानखाङ्क-
चिह्नितप्रियाया विलापं परिदेवनं शृणुताकर्णयत । कीदृशम् । सुधातोऽपि मधुरम् ।
तत्र हेतुमाह — विबुधेति । विबुधालयतोऽपि देवालयेऽपि दुरापं दुष्प्रापमित्यर्थः । सुधा
स्वर्गेऽपि सुलभा कृष्णकथामृतपानं तु तत्रापि दुर्लभ मिति सुधापेक्षयाधिक
माधुर्यमिति
भावः । 'विबुधः पण्डिते देवे' इति विश्वः । सुरालयतोऽपीत्यत्र सप्तम्यर्थे तसिः ।
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri