2022-10-18 04:14:16 by ambuda-bot
This page has not been fully proofread.
सर्गः ८ ]
दशनपदं भवद्धरगतं मम जनयति चेतसि खेदम् ।
कथयति कथमधुनापि मया सह तव वपुरेतद्भेदम् ॥ हरिहरि ०॥५॥
बेहिरिव मलिनतरं तव कृष्ण मनोऽपि भविष्यति नूनम् ।
कथमथ वञ्चयसे जनमनुगतमसमशरज्वरदूनम् ॥ हरिहरि ० ॥ ६॥
०
रसिकप्रिया - रसमञ्जर्याख्यटीकाद्वयोपेतम् ११९
केन सिक्तम् । अत्र मदनद्रुमत्वारोपेण बहिर्ग्रहणेन च तस्याः साधारण्याननुरागौ
सूचितौ । हस्तचरणाभ्यां रतविशेषो यथा – 'यदि संहतमूर्ध्वगमूरुयुगं युवतेः परिरभ्य
नरो रमते । तदभग्नमुरःस्फुटनं च भवेदुरसि प्रमदाचरणद्वयतः ॥ ४ ॥ अपि च । दश-
नपदमिति । हे कृष्ण, तव एतदिति अन्यरमण्युपभोगचिह्नितं मया सहाधुनापि
प्रत्यक्षतो दृश्यमानेऽपि भेद एतामप्यवस्थां प्रापितया सहाभेदं कथं कथयति । कोसा-
वभेद इत्याह – दशनपदं दन्तक्षतं भवदधरगतं सत्, मम चेतसि खेदं जनयतीति ।
यस्य व्रणस्तस्य वेदनेत प्रसिद्धेऽन्यत्रणोऽन्यवेदनामादधातीति विरुद्ध परिहाराय भेद
एव घटते । स च सुतरां विरुद्ध इति ॥५॥ अपि च । बहिरिवेति । नूनं वितर्के ।
हे कृष्ण, अहमिति वितर्कयामि । तव मनोऽपि मनसः स्वभावादौजवल्ये सत्यपि
बहिरिव बहिर्गतकृष्णवर्ण इव मलिनतरं भविष्यति । अथ चैवं न तर्हि अनुगतमा-
।
1
स्रवतालक्तकेन सिक्तम् । अपरोऽपि वृक्षः सिक्तः समुल्लसन्पल्लवानुद्दर्शयतीति ध्वनिः ।
हृदि नायिकाचरणालक्तकसंबन्धकथनेन क्रोधाख्यो बन्धः कथितः । तदुक्तं वात्स्यायने -
'योषित्पादौ हृदि न्यस्य कराभ्यां धारयेत्कुचौ । यथेष्टं ताडयेद्योनिं क्रोधबन्धः प्रकीर्तितः ॥'
इति । 'परिवारः परिकरे समूहे वेष्टनेऽपि च ' इति विश्वप्रकाशः ॥ ४ ॥ किंच ।
दशनेति । भवदधरगतं दशनपदं तवाधरस्थितं कस्याश्चिद्दन्तक्षतं मम चेतसि खेदं
दुःखं जनयति । एतत्तव वपुरधुनापि मया सह कथममेदं कथयति, अन्य-
शरीरक्षतस्यान्यत्र व्यथाजनकत्वासंभवाद्वपुषो मेदं ज्ञापयतीति भावः । अधुनात्यन्त-
हृदयभेदे वपुरभेदो नोचित इति काका व्यज्यते । प्रसिद्धभेदकारणानि षट् । भेदकार-
णस्य विभाव्यमानत्वाद्विभावनालंकारः । तदुक्तं दण्डिना – 'प्रसिद्धहेतुव्यावृत्त्या यकि-
चित्कारणान्तरम् । यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना ॥' इति ॥ ५ ॥
ननु तवोपायनार्थं कमलं त्रोटयति मयि पुष्पकोषादापतता भ्रमरेण ममाधरोष्ठो दष्टो न तु
दशनक्षतमिदमित्यत आह - वपुरिति । हे कृष्ण, नूनं तर्के उत्प्रेक्षायाम् । तव मनोऽपि
चित्तमपि वपुरिव शरीरमिव मलिनतरमतिशयेन मलिनं भविष्यति । यथा ते वपुः श्यामं तथा
मनोऽपि भविष्यतीत्यर्थः । ननु मनोमालिन्यं त्वया कथं शातमित्यत आह — कथमिति ।
अथेति संप्रश्ने । त्वमेव पृच्छयसे यदि तवान्तर्मलिनं न तदाऽसमशरदूनम् असमशरो
विषमशरः कामस्तज्जनितेन ज्वरेण दूनं दुःखितमत एवानुगतं त्वामनुद्रुतं मादृशं जनं कथं
वञ्चरो प्रतारयसि । तथा च शरणागतजनवञ्चन मन्तर्मालिन्यमन्तरेण न भवतीति भावः ।
तथा च व्याजेन दशनक्षतादिगोपनेऽपि नूनमिति पदप्रदानादुत्प्रेक्षा नामायमलंकारः ।
तदुक्तं दण्डिना—'मन्ये श ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दै-
१ 'वपुरिव' इति पाठः ।
-
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri