This page has been fully proofread once and needs a second look.

११८
 
गीतगोविन्दकाव्यम्
 
[ सर्गः ८
 
वपुरनुहरति तव स्मरसङ्गरखरनखरक्षतरेखम् ।

मरकतशकलकलितकलधौतलिपेरिव रतिजयलेखम् ॥ हरिहरि० ॥ ३ ॥

 
चरणकमलगलदलक्तकसिक्तमिदं तव हृदयमुदारम् ।
 

दर्शयतीव बहिर्मदनद्रुमनवकिसलयपरिवारम् ॥ हरिहरि० ॥ ४ ॥
 

 
स्वभावारुणमपि । पुनः किंभूतं दशनवसनम् । कज्जलेन मलिने ये विलोचने तयो-
थु

श्चु
म्बनेन विरचितो नीलिमा यत्र तत् । अत्र मलिनग्रहणं तन्नेत्रयोर्बहुपुरुषोपभोग्यत्वं

व्यञ्जयति ॥ २ ॥ तव वपू रतिजयलेखमनुहरतीवानुकरोतीव । इदं वपुर्न, मया सर्
वं
जितमिति कामिनः प्रति कामजाया प्रेष्य लेखोऽयम् । अनेन स्त्रीप्रेष्यत्वेन तस्याधमत्वं

सूचित मिति व्यङ्ग्योऽर्थः । किंभूतं वपुः । स्मरस्य सङ्गर इव सङ्गरे कामविलासे खरनख-

राणां क्षतरेखा यत्र । अत्रापि खरग्रहणं विलासभनेङ्गे हेतुः । तस्याः संबन्धिनं लेख-

मिति वपुर्नखक्षतानां लेखेतोनोपमेयगर्भविशेषणमाह । मरकतशकले कलितायाः कल-

धौतलिपेः संबन्धिनम् । अथवा लिपेरित्यत्र पञ्चमी । तत्रैवं लिपेरिवेति योजनीयम् ।

कलधौतलिपिमिवेति युक्तः पाठः ॥ ३ ॥ अपि च । <pratika>चरणेति ।</pratika> अत्र प्रीतिविशेषं

सूचयति । हे कृष्ण, तवेदं हृदयं बहिर्मदनद्रुमस्य मदनो द्रुम इव तस्य नव-

किसलयपरिवारं नवपल्लवसमूहमिव दर्शयति । किभूतं हृदयम् । उदारं महत् ।

पुनः किंभूतम् । चरणकमलादलक्तकसान्निध्यादुपभुक्तवनितापादपद्मतः गलतालक्त-
2
 

 
अरुणमपि ते दशनवसनमधरस्तव तनोः शरीरस्यानुरूपं योग्यं रूपं कान्तितिं तनोति

विस्तारयति । तनुरपि ते श्यामाऽधरोऽप्यधुना ते श्याम इति भावः । कीदृशम् । कज्ज-

लेनाञ्जनीभूतेन मलिने ये विलोचने नेत्रे तयोश्चुम्बनेन विरचितो नीलिमा नीलपद्मपत्रं

तादृशं तस्याश्चुम्बनसमये लग्नतन्नेत्राञ्जनेन श्यामीभूतस्तदधर एव स्फुटत्वेन धूर्ततां

प्रकटयतीति भावः । नेत्रयोरपि चुम्बनमुक्तं कामशास्त्रे – '-- "गुह्ये नेत्रे ललाटे च चुम्बनं

परिकीर्तितम्'" इति । '"ओष्ठाधरौ तु रदनच्छदौ दशनवाससी'" इत्यमरः ॥ २ ॥ <pratika>वपुरिति ।
</pratika>
हे कृष्ण, स्मरस्य कामस्य संगरे संग्रामे खराणां तीक्ष्णानां नखराणां नखानां रेखा यत्रै-

तादृशम् । तव वपुर्मरकतशकले नीलमणिखण्डे कलिता निर्मिता या कलधौतलिपिः

सुवर्ण इवाक्षर विन्यासस्तस्या इव रतिजयलेखं सुरतविजयप्रशस्तितिं लेखनपत्रमनुहरति

सदृशीकरोति । अत्र कृष्णवपुषो नीलत्वान्मरकतशकलसाम्यम् । सुवर्णस्य कविसंप्रदाये

आरक्तत्वेनैव वर्णनीयत्वान्नखक्षतस्य सुवर्णलिपिसाम्यं बोध्यम् । '"संगरोऽह्नि कृतौ युधि'
"
इति विश्वः । '"पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम्'" इत्यमरः । '"गारुत्मतं
मरकतम

मरकतमश्
मगर्भो हरिन्मणिः'" इति च । '"भित्तं शकलखण्डे वा पुंसि'" इति च ।
'

"
कलधौतं रूप्यहेम्नोः कलधौतं कलध्वनौ'" इति विश्व: । 'वः । "वर्णदूतः स्वस्तिमुखो लेखो
चा

वा
चिकहारकः'" इति हारावली ॥ ३ ॥ ननु मार्गं विस्मृत्य कण्टकादिक्षतवर्त्म नागच्छतो

मे वपुषि कण्टकक्षतं दृश्यते न तु नखाङ्कमित्यत आह - - <pratika>चरणेति ।</pratika> इदमुदारं

तव हृदयं मदनद्रुमस्य कामवृक्षस्य हृदयान्तर्गतस्य नवकिसलय परिवारं नूतन-

पल्लवसमूहं बहिर्दर्शयतीव । कीदृशं हृदयम् । चरणकमलादन्यका मिनी पदपद्माद्गलता
 
-
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri