2022-10-18 04:14:16 by ambuda-bot
This page has not been fully proofread.
११८
गीतगोविन्दकाव्यम्
[ सर्गः ८
वपुरनुहरति तव स्मरसङ्गरखरनखरक्षतरेखम् ।
मरकतशकलकलितकलधौतलिपेरिव रतिजयलेखम् ॥ हरिहरि० ॥ ३ ॥
चरणकमलगलदलक्तकसिक्तमिदं तव हृदयमुदारम् ।
दर्शयतीव बहिर्मदनद्रुमनवकिसलयपरिवारम् ॥ हरिहरि० ॥ ४ ॥
स्वभावारुणमपि । पुनः किंभूतं दशनवसनम् । कज्जलेन मलिने ये विलोचने तयो-
थुम्बनेन विरचितो नीलिमा यत्र तत् । अत्र मलिनग्रहणं तन्नेत्रयोर्बहुपुरुषोपभोग्यत्वं
व्यञ्जयति ॥ २ ॥ तव वपू रतिजयलेखमनुहरतीवानुकरोतीव । इदं वपुर्न, मया सर्व
जितमिति कामिनः प्रति कामजाया प्रेष्य लेखोऽयम् । अनेन स्त्रीप्रेष्यत्वेन तस्याधमत्वं
सूचित मिति व्यङ्ग्योऽर्थः । किंभूतं वपुः । स्मरस्य सङ्गर इव सङ्गरे कामविलासे खरनख-
राणां क्षतरेखा यत्र । अत्रापि खरग्रहणं विलासभने हेतुः । तस्याः संबन्धिनं लेख-
मिति वपुर्नखक्षतानां लेखेतोपमेयगर्भविशेषणमाह । मरकतशकले कलितायाः कल-
धौतलिपेः संबन्धिनम् । अथवा लिपेरित्यत्र पञ्चमी । तत्रैवं लिपेरिवेति योजनीयम् ।
कलधौतलिपिमिवेति युक्तः पाठः ॥ ३ ॥ अपि च । चरणेति । अत्र प्रीतिविशेषं
सूचयति । हे कृष्ण, तवेदं हृदयं बहिर्मदनद्रुमस्य मदनो द्रुम इव तस्य नव-
किसलयपरिवारं नवपल्लवसमूहमिव दर्शयति । किभूतं हृदयम् । उदारं महत् ।
पुनः किंभूतम् । चरणकमलादलक्तकसान्निध्यादुपभुक्तवनितापादपद्मतः गलतालक-
2
अरुणमपि ते दशनवसनमधरस्तव तनोः शरीरस्यानुरूपं योग्यं रूपं कान्ति तनोति
विस्तारयति । तनुरपि ते श्यामाऽधरोऽप्यधुना ते श्याम इति भावः । कीदृशम् । कज्ज-
लेनाञ्जनीभूतेन मलिने ये विलोचने नेत्रे तयोश्चुम्बनेन विरचितो नीलिमा नीलपद्मपत्रं
तादृशं तस्याश्चुम्बनसमये लग्नतन्नेत्राञ्जनेन इयामीभूतस्तदधर एव स्फुटत्वेन धूर्ततां
प्रकटयतीति भावः । नेत्रयोरपि चुम्बनमुक्तं कामशास्त्रे – 'गुह्ये नेत्रे ललाटे च चुम्बनं
परिकीर्तितम्' इति । 'ओष्ठाधरौ तु रदनच्छदौ दशनवाससी' इत्यमरः ॥ २ ॥ वपुरिति ।
हे कृष्ण, स्मरस्य कामस्य संगरे संग्रामे खराणां तीक्ष्णानां नखराणां नखानां रेखा यत्रै-
तादृशम् । तव वपुर्मरकतशकले नीलमणिखण्डे कलिता निर्मिता या कलधौतलिपिः
सुवर्ण इवाक्षर विन्यासस्तस्या इव रतिजयलेखं सुरतविजयप्रशस्ति लेखनपत्रमनुहरति
सदृशीकरोति । अत्र कृष्णवपुषो नीलत्वान्मरकतशकलसाम्यम् । सुवर्णस्य कविसंप्रदाये
आरक्तत्वेनैव वर्णनीयत्वान्नखक्षतस्य सुवर्णलिपिसाम्यं बोध्यम् । 'संगरोऽह्नि कृतौ युधि'
इति विश्वः । 'पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम्' इत्यमरः । 'गारुत्मतं
मरकतम मगर्भो हरिन्मणिः' इति च । 'भित्तं शकलखण्डे वा पुंसि' इति च ।
'कलधौत रूप्यहेम्नोः कलधौतं कलध्वनौ' इति विश्व: । 'वर्णदूतः स्वस्तिमुखो लेखो
चाचिकहारकः' इति हारावली ॥ ३ ॥ ननु मार्ग विस्मृत्य कण्टकादिक्षतवर्त्म नागच्छतो
मे वपुषि कण्टकक्षतं दृश्यते न तु नखाङ्कमित्यत आह - चरणेति । इदमुदारं
तव हृदयं मदनद्रुमस्य कामवृक्षस्य हृदयान्तर्गतस्य नवकिसलय परिवारं नूतन-
पल्लवसमूहं बहिर्दर्शयतीव । कीदृशं हृदयम् । चरणकमलादन्यका मिनी पदपद्माद्गलता
-
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri