This page has been fully proofread once and needs a second look.

सर्गः ८ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
 
११७
 
कज्जलमलिनविलोचनचुम्बनविरचितनीलिम रूपम् ।

दशनवसनमरुणं तव कृष्ण तनोति तनोरनुरूपम् ॥ हरिहरि० ॥ २ ॥
 

 

 
केशव, याहि । स्वयोषिति रतत्वे किमुच्यते । प्रशस्ताः केशा यस्येति केशवपदव्यु -

त्पत्तेः । त्वं केशसंस्कारवतीषु स्वैरिणीषु रत इति केशवशब्दव्यङ्ग्यम् । अतो हे केशव,

बहुवल्लभ, त्वदेकपरायणोऽहमित्यादिकैतववादं छलवाक्यं मा वद । विषण्मय
णे मयि
किमकारणरोषणे रोष इत्याशङ्कसे चेत् । मैवम् । हे कुमुदलोचन, या तव विषा
दं हरति
तामेव बहुप्रियामनुसर । अनुरूपस्यानुरूपायामनुरूपं सुरतमिति । कुमुदग्रहणेन सोम-

वंशोद्भूतत्वाद्रात्रौ जागरो दिवाशयो लक्ष्यते । इति ध्रुवः ॥ अथ पदानि । <pratika>रजनीति ।
</pratika>
हे कृष्ण, त्वं नयनमनुरागमिव वहसि । किंभूतमनुरागम् । स्फुटमतिबाहुल्येनान्त-

र्व्याप्य बहिर्निर्यातम् । पुनः किंभूतम् । उदितरसस्य शृङ्गारस्याभिनिवेश आग्रहो यत्र ।

अथानुरागविशेषणत्वेन उदितः स्वादस्याभिलाषस्याग्रहो यत्रेति । किंभूतं नयनम् ।

रजनिजनितो योऽसौ गुरुजागररागः तेन कषायितं लोहितीकृतम् । पुनः किंभूतम् ।

अलसो निवेशोऽवस्थानं यत्र । अत्र '"वहति'" इति पाठान्तरपक्षे तवेति पूर्वपक्षस्या-

नुषङ्गेण नयनं कर्तृ स्फुटमनुरागं वहतीति योज्यम् ॥ १ ॥ अपि च । <pratika>कज्जलेति ।
</pratika>
हे कृष्ण, तव दशनवसनमधरस्तनोरनुरूपं रूपं तनोति । किंभूतम् । अरुणम् ।

 
माधव हे केशव, याहि इतोऽपसर । लक्ष्मीश्चञ्चलातस्तेऽपि तादृशीष्वेवानुरागो युज्यते ।

स्थिरानुरागाणां मादृशां ते किं प्रयोजनमिति माधवपदेन ध्वनितम् । कैतववादं छलवाक्यं

मा वद मा कथय । '"कैतवं तु छले धूर्ते'" इति विश्वः । ननु त्वदनुसरणायैवेतस्ततो

भ्रमतो विलम्बो जात इत्यत आह - - <pratika>तामिति ।</pratika> हे सरसीरुहलोचन कमलनयन, तां

नायिकामनुसरानुगच्छ या तव विषादं दुःखं हरति । अहं तु स्वयमेव संतप्ये ।

ते विषादं कथमपनेष्यामीति भावः । अत्र पद्मं प्रभाते यथार्थमर्धमुकुलितं तद्वत्ते नयनं

रात्रिजागरालस्यान्मुकुलीभवद्लात्त्वया प्रसार्यमाणमित्युन्निद्रवश। शात्किंचित्प्रलपसीति
सर-
सीरुहलोचनेत्यनेन ध्वनितम् । यद्वा सरसीरुहं यथा रात्रौ मुकुलितं तिष्ठति प्रभाते

प्रसरति तथा त्वदीयनयनं रात्रौ मद्विषये निमीलितमासीदिदानीं त्वया प्रसारितमिति

तेन पदेन ध्वनितम् । ननु मे त्वत्तोऽन्या प्रेयसी नेत्यत आह -- हे कृष्ण, तव नेत्रं

नयनं तदनुरागमिव वहति धारयति । कीदृशं नयनम् । रजनिजनितो रात्रिजातो गुरुर्यो

महाञ्जागरस्तज्जनितो यो रागो रक्तता तदेव रञ्जनद्रव्यं तेन कषायितमीषल्लोहितम् ।

तदेवालसनिमेषम् । अलसो मन्थरो निमेषः पक्ष्मविन्यासो यस्य तादृशम् । अत्र च

रात्रिकेलिसाक्षिणा कृष्णेन यस्याः कस्याश्चिद्गोपिकायाः केलिव्यासङ्गेन वृथा जागरणं कारित

इति रागेण क्रोधेन कषायितस्य राधाया अग्रेऽन्यनायिका गुप्तरसाभिनिवेशत्वमुचित मेवेति

ध्वनिः । '"गुरुर्महति चान्यवत्'" इति विश्वः । '"रागोऽनुरक्तौ मात्सर्ये क्लेशादौ लोहितादिषु'
'
"
"
गान्धारादावन्यो रागः'" इति विश्वः । '"कषायो रसभेदे स्यादङ्गरागे विलेपने ।

निर्यासे च कषायोऽथ सुरभौ लोहितेऽन्यवत्'" इति च । '"निवेशः शिबिरोद्वाहे

विन्यासेऽनुप्रकाशिते'" इत्यपि । हरिहरीत्यव्ययम् ॥ १ ॥ खेदेन त्वदन्वेषणार्थपर्यटन-

जनितरजनिजागरान्नेत्रयोलौंर्लौहित्यमित्यलं दुःशङ्कयेत्यत आह - - <pratika>कज्जलेति ।</pratika> हे कृष्ण,
 
सर-
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri