2022-10-18 04:14:17 by ambuda-bot
This page has not been fully proofread.
सर्गः ८ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
११७
कज्जलमलिनविलोचनचुम्बनविरचितनीलिम रूपम् ।
दशनवसनमरुणं तव कृष्ण तनोति तनोरनुरूपम् ॥ हरिहरि० ॥ २ ॥
०
केशव, याहि । स्वयोषिति रतत्वे किमुच्यते । प्रशस्ताः केशा यस्येति केशवपदव्यु -
त्पत्तेः । त्वं केशसंस्कारवतीषु स्वैरिणीषु रत इति केशवशब्दव्यङ्ग्यम् । अतो हे केशव,
बहुवल्लभ, त्वदेकपरायणोऽहमित्यादिकैतववादं छलवाक्यं मा वद । विषण्मय
किमकारणरोषणे रोष इत्याशङ्कसे चेत् । मैवम् । हे कुमुदलोचन, या तव विषा
तामेव बहुप्रियामनुसर । अनुरूपस्यानुरूपायामनुरूपं सुरतमिति । कुमुदग्रहणेन सोम-
वंशोद्भूतत्वाद्रात्रौ जागरो दिवाशयो लक्ष्यते । इति ध्रुवः ॥ अथ पदानि । रजनीति ।
हे कृष्ण, त्वं नयनमनुरागमिव वहसि । किंभूतमनुरागम् । स्फुटमतिबाहुल्येनान्त-
र्व्याप्य बहिर्निर्यातम् । पुनः किंभूतम् । उदितरसस्य शृङ्गारस्याभिनिवेश आग्रहो यत्र ।
अथानुरागविशेषणत्वेन उदितः स्वादस्याभिलाषस्याग्रहो यत्रेति । किंभूतं नयनम् ।
रजनिजनितो योऽसौ गुरुजागररागः तेन कषायितं लोहितीकृतम् । पुनः किंभूतम् ।
अलसो निवेशोऽवस्थानं यत्र । अत्र 'वहति' इति पाठान्तरपक्षे तवेति पूर्वपक्षस्या-
नुषङ्गेण नयनं कर्तृ स्फुटमनुरागं वहतीति योज्यम् ॥ १ ॥ अपि च । कज्जलेति ।
हे कृष्ण, तव दशनवसनमधरस्तनोरनुरूपं रूपं तनोति । किंभूतम् । अरुणम् ।
माधव हे केशव, याहि इतोऽपसर । लक्ष्मीश्चञ्चलातस्तेऽपि तादृशीष्वेवानुरागो युज्यते ।
स्थिरानुरागाणां मादृशां ते किं प्रयोजनमिति माधवपदेन ध्वनितम् । कैतववादं छलवाक्यं
मा वद मा कथय । 'कैतवं तु छले धूर्ते' इति विश्वः । ननु त्वदनुसरणायैवेतस्ततो
भ्रमतो विलम्बो जात इत्यत आह - तामिति । हे सरसीरुहलोचन कमलनयन, तां
नायिकामनुसरानुगच्छ या तव विषादं दुःखं हरति । अहं तु स्वयमेव संतप्ये ।
ते विषादं कथमपनेष्यामीति भावः । अत्र पद्मं प्रभाते यथार्थमर्धमुकुलितं तद्वत्ते नयनं
रात्रिजागरालस्यान्मुकुलीभवद्वलात्त्वया प्रसार्यमाणमित्युन्निद्रवश। त्किंचित्प्रलपसीति
सीरुहलोचनेत्यनेन ध्वनितम् । यद्वा सरसीरुहं यथा रात्रौ मुकुलितं तिष्ठति प्रभाते
प्रति तथा त्वदीयनयनं रात्रौ मद्विषये निमीलितमासीदिदानीं त्वया प्रसारितमिति
तेन पदेन ध्वनितम् । ननु मे त्वत्तोऽन्या प्रेयसी नेत्यत आह - हे कृष्ण, तव नेत्रं
नयनं तदनुरागमिव वहति धारयति । कीदृशं नयनम् । रजनिजनितो रात्रिजातो गुरुयो
महाञ्जागरस्तज्जनितो यो रागो रक्तता तदेव रञ्जनद्रव्यं तेन कषायितमीषल्लोहितम् ।
तदेवालसनिमेषम् । अलसो मन्थरो निमेषः पक्ष्मविन्यासो यस्य तादृशम् । अत्र च
रात्रिकेलिसाक्षिणा कृष्णेन यस्याः कस्याश्चिद्गोपिकायाः केलिव्यासङ्गेन वृथा जागरणं कारित
इति रागेण क्रोधेन कषायितस्य राधाया अग्रेऽन्यनायिका गुप्तरसाभिनिवेशत्वमुचित मेवेति
ध्वनिः । 'गुरुर्महति चान्यवत्' इति विश्वः । 'रागोऽनुरक्तौ मात्सर्ये क्लेशादौ लोहितादिषु'
'गान्धारादावन्यो रागः' इति विश्वः । 'कषायो रसभेदे स्यादङ्गरागे विलेपने ।
निर्यासे च कषायोऽथ सुरभौ लोहितेऽन्यवत्' इति च । 'निवेशः शिबिरोद्वाहे
विन्यासेऽनुप्रकाशिते' इत्यपि । हरिहरीत्यव्ययम् ॥ १ ॥ खेदेन त्वदन्वेषणार्थपर्यटन-
जनितरजनिजागरान्नेत्रयोलौंहित्यमित्यलं दुःशङ्कयेत्यत आह - कज्जलेति । हे कृष्ण,
सर-
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri