2022-11-12 07:28:40 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
<bold>अष्टमः सर्गः ८ </bold>
विलक्ष्यलक्ष्मीपतिः ।
अथ कथमपि यामिनीं विनीय स्मरशरजर्जरितापि सा प्रभाते ।
अनुनयवचनं वदन्तमग्रे प्रणतमपि प्रियमाह साभ्यसूयम् ॥ १ ॥
भैरवीरागयतितालाभ्यां गीयते ॥ प्र० ॥ १७ ॥
रजनिजनितगुरुजागररागकषायितमलसनिवेश[^१]म् ।
व[^२]हति नयनमनुरागमिव स्फुटमुदितरसाभिनिवेशम् ।
हरिहरि याहि माधव याहि केशव मा वद कैतववादम् ।
तामनुसर सरसीरुहलोचन या तव हरति विषादम् ॥ ध्रुवम् ॥
सदानन्दसन्दोहकारं मुकुन्दं नमस्कृत्य पद्माङ्गविद्युत्पयोदम् ।
नृपः कुम्भकर्णो विधत्ते विचित्रं वरं गीतगोविन्दधातुं पवित्रम् ॥ १ ॥
इदानीमेवं तत्परत्वेन विलपमानायास्तस्याः पुरत आर्तप्राणपरित्राणकारणं जग-
कारणकारणमाविरभूत् । अतः कविराह -- <pratika>अथेति ।</pratika>मानिनीनां हि प्रियाग्रतो
मानोऽतिमानमेतीति प्रसिद्धमाह । अथ माधवागमनानन्तरं प्रियं साभ्यसूयं सा
राधा वक्ष्यमाणमाह । किंभूतं प्रियम् । अग्रे प्रणतमपि । अर्थाच्चरणयोः । पुनः
किंभूतम् । अनुनयवचनं सामवाक्यं वदन्तम् । क्व प्रभाते । किंभूता सा । स्मर-
शरजर्जरितापि । किं कृत्वा । कथमपि महता कष्टेन यामिनीं विनीय । पुष्पिताग्रा
वृत्तम् । खण्डिता नायिका । हरिहरीति धूर्तो नायकः । विप्रलम्भो रसः । जातिर-
लंकारः ॥ १ ॥ तामेव सपत्नीविषयेर्ष्यां प्रकटयति । तत्र पूर्वं पूर्वपदानुस्यूतत्वाद्ध्रुव-
पदं व्याक्रियते -- <pratika>हरिहरीति ।</pratika>हरिहरीत्यव्ययानामनन्तार्थत्वात्खेदवाचकमव्ययम् ।
अथवा गानपूर्त्यै, स्तोभमात्रम् । खण्डिता राधा अग्रे प्रणतं प्रियं सेर्ष्यमाह -- हे
माधव लक्ष्मीपते, याहि गच्छ । अन्यासक्तो हि कथमन्यां प्रतारयसीति माशब्द-
द्योत्यम् । अथवा मा स्वभावचञ्चला तस्याः पत्युश्चञ्चलत्वं युक्तमेव । तर्हि चञ्चलस्त्वं
त्वदेकपरायणां मां कथं प्रतारयसीति याहि । एवमप्यधिक्षेपेऽसंतुष्टा पुनराह । हे
<pratika>अथेति ।</pratika> अथानन्तरं सा राधा प्रभाते प्रातः प्रियं कृष्णं साभ्यसूयमसूयासहितं यथा
स्यादेवमाह उक्तवती । किं कृत्वा । यामिनीं रात्रिं कथमपि कष्टादपि विनीय नीत्वा ।
अत्र यामिनीपदेन प्रियविरहेऽतिदीर्घत्वं ध्वनितम् । उदरवती कन्येतिवत् । कीदृशी ।
स्मरशरजर्जरितापि कामबाणपीडितापि अन्यनायिकानखाङ्कदर्शनेन जनितमहादुःखा
विस्मृतविरहृदुःखा उवाचेत्यर्थः । कीदृशं प्रियम् । अनुनयाय स्वापराधजनितकोपशान्तये
वचनं "यज्जातं तज्जातं भूयो नेदृशमाचरामि" इत्यादि विनयवाक्यं वदन्तं प्रणतमपि नम्रमपि ।
"रजनी यामिनी" इत्यमरः ॥ १ ॥ तदेव गीतेन कथयति -- <pratika>रजनीति ।</pratika> गीतस्यास्य
भैरवी रागो यतितालः । ताललक्षणमुक्तं प्राकू । गीतार्थस्तु -- हरिहरीति खेदे । हे
[^१.] "निमेषम्" इति पाठः । [^२.] "वहसि" इति पाठान्तरम् ।