This page has been fully proofread once and needs a second look.

११६
 
आगीतगोविन्दकाव्यम्
 
[ सर्गः ८
 
<bold>अष्टमः सर्गः ८ mat
 
</bold>
 
विलक्ष्यलक्ष्मीपतिः ।
 

 
अथ कथमपि यामिनीं विनीय स्मरशरजर्जरितापि सा प्रभाते ।

अनुनयवचनं वदन्तमग्रे प्रणतमपि प्रियमाह साभ्यसूयम् ॥ १ ॥

 
<bold>
भैरवीरागयतितालाभ्यां गीयते ॥ प्र० ॥ १७ ॥
</bold>
 
रजनिजनितगुरुजागररागकषायितमलसनिवेशम्
वै
[^१]म् ।
व[^२]
हति नयनमनुरागमिव स्फुटमुदितरसाभिनिवेशम् ।

हरिहरि याहि माधव याहि केशव मा वद कैतववादम् ।

तामनुसर सरसीरुहलोचन या तव हरति विषादम् ॥ ध्रुवम् ॥
 

 

 
सदानन्दसन्दोहकारं मुकुन्दं नमस्कृत्य पद्माङ्गविद्युत्पयोदम् ।
 

नृपः कुम्भकर्णो विधत्ते विचित्रं वरं गीतगोविन्दधातुं पवित्रम् ॥ १ ॥

 
इदानीमेवं तत्परत्वेन विलपमानायास्तस्याः पुरत आर्तप्राण परित्राणकारणं जग-

कारणकारणमाविरभूत् । अतः कविराह -- <pratika>अथेति । </pratika>मानिनीनां हि प्रियाग्रतो

मानोऽतिमानमेतीति प्रसिद्धमाह । अथ माधवागमनानन्तरं प्रियं साभ्यसूयं सा

राधा वक्ष्यमाणमाह । किंभूतं प्रियम् । अत्ग्रे प्रणतमपि । अर्थाच्चरणयोः । पुनः

किंभूतम् । अनुनयवचनं सामवाक्यं वदन्तम् । क्व प्रभाते । किंभूता सा । स्मर-

शरजर्जरितापि । किं कृत्वा । कथमपि महता कष्टेन यामिनीं विनीय । पुष्पिताप्रा
ग्रा
वृत्तम् । खण्डिता नायिका । हरिहरीति धूर्तो नायकः । विप्रलम्भो रसः । जातिर-

लंकारः ॥ १ ॥ तामेव सपत्नीविषयेर्ष्यां प्रकटयति । तत्र पूर्वं पूर्वपदानुस्यूतत्वाद्धुध्रुव-

पदं व्याक्रियते - - <pratika>हरिहरीति । </pratika>हरिहरीत्यव्ययानामनन्तार्थत्वात्खेदवाचकमव्ययम् ।

अथवा गानपूर्त्यै, स्तोभमात्रम् । खण्डिता राधा अग्रे प्रणतं प्रियं सेर्ष्यमाह -- हे

माधव लक्ष्मीपते, याहि गच्छ । अन्यासक्तो हि कथमन्यां प्रतारयसीति माशब्द-

द्योत्यम् । अथवा मा स्वभावचञ्चला तस्याः पत्युञ्श्चञ्चलत्वं युक्तमेव । तर्हि चञ्चलस्त्वं

त्वदेकपरायणां मां कथं प्रतारयसीति याहि । एवमप्यधिक्षेपेऽसंतुष्टा पुनराह । हे
 
2
 

 
<pratika>
अथेति ।</pratika> अथानन्तरं सा राधा प्रभाते प्रातः प्रियं कृष्णं साभ्यसूयमसूयासहितं यथा

स्यादेवमाह उक्तवती । किं कृत्वा । यामिनीं रात्रिरिं कथमपि कष्टादपि विनीय नीत्वा ।

अत्र यामिनीपदेन प्रियविरहेऽतिदीर्घत्वं ध्वनितम् । उदरवती कन्येतिवत् । कीदृशी ।

स्मरशरजर्जरितापि कामबाणपीडितापि अन्यनायिकानखाङ्कदर्शनेन जनितमहादुःखा

विस्मृतविरहृदुःखा उवाचेत्यर्थः । कीदृशं प्रियम् । अनुनयाय स्वापराधजनितकोपशान्तये

वचनं '"यज्जातं तज्जातं भूयो नेदृशमाचरामि'" इत्यादि विनयवाक्यं वदन्तं प्रणतमपि नम्रमपि ।
'

"
रजनी यामिनी'" इत्यमरः ॥ १ ॥ तदेव गीतेन कथयति - - <pratika>रजनीति ।</pratika> गीतस्यास्य

भैरवी रागो यतिताल:लः । ताललक्षणमुक्तं प्राकू । गीतार्थस्तु -- हरिहरीति खेदे । हे
 

 
[^
'.] "निमेषम्'" इति पाठः । [^ '.] "वहसि'" इति पाठान्तरम् ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri