This page has not been fully proofread.

११६
 
आगीतगोविन्दकाव्यम्
 
[ सर्गः ८
 
अष्टमः सर्गः ८ mat
 
विलक्ष्यलक्ष्मीपतिः ।
 
अथ कथमपि यामिनीं विनीय स्मरशरजर्जरितापि सा प्रभाते ।
अनुनयवचनं वदन्तम प्रणतमपि प्रियमाह साभ्यसूयम् ॥ १ ॥
भैरवीरागयतितालाभ्यां गीयते ॥ प्र० ॥ १७ ॥
रजनिजनितगुरुजागररागकषायितमलसनिवेशम्
वैहति नयनमनुरागमिव स्फुटमुदितरसाभिनिवेशम् ।
हरिहरि याहि माधव याहि केशव मा वद कैतववादम् ।
तामनुसर सरसीरुहलोचन या तव हरति विषादम् ॥ ध्रुवम् ॥
 

 
सदानन्दसन्दोहकारं मुकुन्दं नमस्कृत्य पद्माङ्गविद्युत्पयोदम् ।
 
नृपः कुम्भकर्णो विधत्ते विचित्रं वरं गीतगोविन्दधातुं पवित्रम् ॥ १ ॥
इदानीमेवं तत्परत्वेन विलपमानायास्तस्याः पुरत आर्तप्राण परित्राणकारणं जग-
कारणकारणमाविरभूत् । अतः कविराह – अथेति । मानिनीनां हि प्रियायतो
मानोऽतिमानमेतीति प्रसिद्धमाह । अथ माधवागमनानन्तरं प्रियं साभ्यसूयं सा
राधा वक्ष्यमाणमाह । किंभूतं प्रियम् । अत्रे प्रणतमपि । अर्थाच्चरणयोः । पुनः
किंभूतम् । अनुनयवचनं सामवाक्यं वदन्तम् । व प्रभाते । किंभूता सा । स्मर-
शरजर्जरितापि । किं कृत्वा । कथमपि महता कष्टेन यामिनीं विनीय । पुष्पिताप्रा
वृत्तम् । खण्डिता नायिका । हरिहरीति धूर्तो नायकः । विप्रलम्भो रसः । जातिर-
लंकारः ॥ १ ॥ तामेव सपत्नीविषयेय प्रकटयति । तत्र पूर्वं पूर्वपदानुस्यूतवाद्धुव-
पदं व्याक्रियते - हरिहरीति । हरिहरीत्यव्ययानामनन्तार्थत्वात्खेदवाचकमव्ययम् ।
अथवा गानपूर्त्यै स्तोभमात्रम् । खण्डिता राधा अग्रे प्रणतं प्रियं सेर्ष्यमाह - हे
माधव लक्ष्मीपते, याहि गच्छ । अन्यासक्तो हि कथमन्यां प्रतारयसीति माशब्द-
द्योत्यम् । अथवा मा स्वभावचञ्चला तस्याः पत्युञ्चञ्चलत्वं युक्तमेव । तर्हि चञ्चलस्त्वं
त्वदेकपरायणां मां कथं प्रतारयसीति याहि । एवमप्यधिक्षेपेऽसंतुष्टा पुनराह । हे
 
2
 
अथेति । अथानन्तरं सा राधा प्रभाते प्रातः प्रियं कृष्णं साभ्यसूयमसूयासहितं यथा
स्यादेवमाह उक्तवती । किं कृत्वा । यामिनीं रात्रि कथमपि कष्टादपि विनीय नीत्वा ।
अत्र यामिनीपदेन प्रियविरहेऽतिदीर्घत्वं ध्वनितम् । उदरवती कन्येतिवत् । कीदृशी ।
स्मरशरजर्जरितापि कामबाणपीडितापि अन्यनायिकानखाङ्कदर्शनेन जनितमहादुःखा
विस्मृतविरहृदुःखा उवाचेत्यर्थः । कीदृशं प्रियम् । अनुनयाय स्वापराधजनितकोपशान्तये
वचनं 'यज्जातं तज्जातं भूयो नेदृशमाचरामि' इत्यादि विनयवाक्यं वदन्तं प्रणतमपि नम्रमपि ।
'रजनी यामिनी' इत्यमरः ॥ १ ॥ तदेव गीतेन कथयति - रजनीति । गीतस्यास्य
भैरवी रागो यतिताल: । ताललक्षणमुक्तं प्राकू । गीतार्थस्तु – हरिहरीति खेदे । हे
 
१ 'निमेषम्' इति पाठः । २ 'वहसि' इति पाठान्तरम् ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri