This page has been fully proofread once and needs a second look.

सर्गः ७प्रा[^१] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् ११५
प्री
तर्नीलनिचोलमच्युतमुरः संवीतपीताम्बरं
 

राधायाश्चकितं विलोक्य हसति स्वैरं सखीमण्डले ।

व्रीडाचञ्चलमञ्चलं नयनयोराधाय राधानने

स्वादुस्मेरमुखोऽयमस्तु जगदानन्दाय नन्दात्मजः ॥ १० ॥

 
इति श्रीगीतगोविन्दे विप्रलब्धावर्णने नागरनारायणो

नाम सप्तमः सर्गः ॥ ७ ॥
 

 
भिप्रायः । वसन्ततिलकावृत्तम् । अप्रस्तुतप्रशंसालंकारः ॥ ९ ॥ इदानीं सर्गान्ते

वैष्णवानाशास्ते -- <pratika>प्रातरिति ।</pratika> अयं नन्दात्मजः जगदानन्दायास्तु । किंभूतः ।

स्मेरमुखः स्मेरं सहासं मुखं यस्य स तथा । किं कृत्वा । राधानने नयनयोरञ्चलं

प्रान्तमाधाय आरोग्प्य । किंभूतमञ्चलम् । व्रीडाचञ्चलं लज्जया तरलम् । एतावता

राधाननं कटाक्षवीक्षितं कृत्वेत्यर्थः । तदुक्तम् – '-- "यद्गतागत विश्रान्तिवैचित्र्येण

विवर्तनम् । तारकायाः कलाभिज्ञास्तं कटाक्षं प्रचक्षते'" इति । क्व सति । सखीमण्डले

प्रातश्चकितं यथा स्यात्तथा स्खैवैरं स्वेच्छया हसति सति । किं कृत्वा । अच्युतं

नीलनिचोलं नीलपरिच्छदं विलोक्य । च पुनः राधाया उरः संवीतपीतांशुकम् ।

एवं वस्त्रविनिमयः सखीनां हास्ये कारणम् । इह हास्यो रसः । शार्दूलविक्रीडितं

वृत्तम् । स्वभावोक्तिरलंकारः । अत्र सर्गे शठो नायकः अभिसारिका नायिका ।

तल्लक्षणं—' -- "स्मरार्ताभिसरेत्कान्तं सारयेद्वाभिसारिका'" ॥ १० ॥
 

 

श्री एकलिङ्गाश्रयसोदरायां स्फीतोज्ज्वलायां रसिकप्रियायाम् ।

श्रीकुम्भकर्णेन विनिर्मितायां सर्गोऽगमत्सप्तम ऊर्जितायाम् ॥

इति श्रीगयादिविमोक्षादि विश्वजनी नकर्म निर्मलीकृतान्तःकरणराजाधिराजमहा-

राजश्रीकुम्भकर्ण विरचितायां गीतगोविन्दटीकायां रसिकप्रियायां सप्तमः

सर्गः समाप्तितिं समगादिति । निर्मलमतीनामभिमतपरिपूर्तिः
स्वा

स्ता
दिति शिवम् ॥
 
'

 
"
भगिनी स्वसा'" इत्यमरः । कामबाणा अपि - '- "संमोहनः क्षोभणश्च दहनः शोषणस्तथा ।

उच्चाटनश्च कामस्य बाणा:णाः पञ्च प्रकीर्तिताः'" इति ॥ ९ ॥ ( अत्र प्रातरित्यादि श्लोकटी का
का
नोपलब्धादर्शपुस्तके ) ॥ १० ॥
 

अन्तस्तमांसि हरती नितरामनल्प-

स्नेहानुवर्तिरतिनर्म विभावयन्ती ।
 

गूढान्पदार्थनिचयान्स्फुटतां नयन्ती
 

दीपप्रमेभेव रुचिरा रसमञ्जरीयम् ॥ १ ॥
 

इति श्रीमहामहोपाध्यायश्री शंकर मिश्रविरचितायां श्रीशालिनाथकारितायां

गीतगोविन्दटीकायां रसमञ्जरीसमाख्यायां सप्तमः सर्गः ॥ ७ ॥
 

 
[^
.] केषुत्चित्पुस्तकेषु पद्यस्यास्य स्थाने '"सान्द्रानन्दपुरन्दरादि ० इत्यादि पद्यं दृश्यते ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri