2022-10-18 04:14:15 by ambuda-bot
This page has not been fully proofread.
सर्गः ७] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् ११५
प्रीतर्नीलनिचोलमच्युतमुरः संवीतपीताम्बरं
राधायाश्चकितं विलोक्य हसति स्वैरं सखीमण्डले ।
व्रीडाचञ्चलमञ्चलं नयनयोराधाय राधानने
स्वादुस्मेरमुखोऽयमस्तु जगदानन्दाय नन्दात्मजः ॥ १० ॥
इति श्रीगीतगोविन्दे विप्रलब्धावर्णने नागरनारायणो
नाम सप्तमः सर्गः ॥ ७ ॥
भिप्रायः । वसन्ततिलकावृत्तम् । अप्रस्तुतप्रशंसालंकारः ॥ ९ ॥ इदानीं सर्गान्ते
वैष्णवानाशास्ते – प्रातरिति । अयं नन्दात्मजः जगदानन्दायास्तु । किंभूतः ।
स्मेरमुखः स्मेरं सहासं मुखं यस्य स तथा । किं कृत्वा । राधानने नयनयोरञ्चलं
प्रान्तमाधाय आरोग्य । किंभूतमञ्चलम् । व्रीडाचञ्चलं लज्जया तरलम् । एतावता
राधाननं कटाक्षवीक्षितं कृत्वेत्यर्थः । तदुक्तम् – 'यद्गतागत विश्रान्तिवैचित्र्येण
विवर्तनम् । तारकायाः कलाभिज्ञास्तं कटाक्षं प्रचक्षते' इति । क्व सति । सखीमण्डले
प्रातश्चकितं यथा स्यात्तथा स्खैरं स्वेच्छया हसति सति । किं कृत्वा । अच्युतं
नीलनिचोलं नीलपरिच्छदं विलोक्य । च पुनः राधाया उरः संवीतपीतांशुकम् ।
एवं वस्त्रविनिमयः सखीनां हास्ये कारणम् । इह हास्यो रसः । शार्दूलविक्रीडितं
वृत्तम् । स्वभावोक्तिरलंकारः । अत्र सर्गे शठो नायकः अभिसारिका नायिका ।
तल्लक्षणं—'स्मरार्ताभिसरेत्कान्तं सारयेद्वाभिसारिका' ॥ १० ॥
।
श्री एकलिङ्गाश्रयसोदरायां स्फीतोज्ज्वलायां रसिकप्रियायाम् ।
श्रीकुम्भकर्णेन विनिर्मितायां सर्गोऽगमत्सप्तम ऊर्जितायाम् ॥
इति श्रीगयादिविमोक्षादि विश्वजनी नकर्म निर्मलीकृतान्तःकरणराजाधिराजमहा-
राजश्रीकुम्भकर्ण विरचितायां गीतगोविन्दटीकायां रसिकप्रियायां सप्तमः
सर्गः समाप्ति समगादिति । निर्मलमतीनामभिमतपरिपूर्तिः
स्वादिति शिवम् ॥
'भगिनी स्वसा' इत्यमरः । कामबाणा अपि - 'संमोहनः क्षोभणश्च दहनः शोषणस्तथा ।
उच्चाटनश्च कामस्य बाणा: पञ्च प्रकीर्तिताः' इति ॥ ९ ॥ ( अत्र प्रातरित्यादि लोकटी का
नोपलब्धादर्शपुस्तके ) ॥ १० ॥
अन्तस्तमांसि हरती नितरामनल्प-
स्नेहानुवर्तिरतिनर्म विभावयन्ती ।
गूढान्पदार्थनिचयान्स्फुटतां नयन्ती
दीपप्रमेव रुचिरा रसमञ्जरीयम् ॥ १ ॥
इति श्रीमहामहोपाध्यायश्री शंकर मिश्रविरचितायां श्रीशालिनाथकारितायां
गीतगोविन्दटीकायां रसमञ्जरीसमाख्यायां सप्तमः सर्गः ॥ ७ ॥
१ केषुत्चित्पुस्तकेषु पद्यस्यास्य स्थाने 'सान्द्रानन्दपुरन्दरादि ० इत्यादि पद्यं दृश्यते ।
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri