This page has been fully proofread once and needs a second look.

११४
 
गीतगोविन्दकाव्यम्
 
बाधां विधेहि मलयानिल पञ्चबाण
 

प्राणान्गृहाण न गृहं पुनराश्रयिष्ये ।

किं ते कृतान्तभगिनि क्षमया तरङ्गै-

रङ्गानि सिञ्च मम शाम्यतु देहदाहः ॥ ९ ॥
 
[ सर्गः ७
 

 
इव मनो दुनोति । अपि च अमृतदीधितिर्हालाहलमिव मनो दुनोति । एवमप्यर्थे

तस्मिन्नप्यदये हृदयं पुनर्बलाद्वलते तदभिमुखीभवति किं तर्हि क्रियते स्त्रैणस्थि-

तिरियम् । कुवलयदृशां निकामनिरङ्कुशः कामो वाम एव वर्तते । निकाम निरङ्कुशः

अतिशयोच्छृङ्खलः । अत्र हरिणीवृत्तम् । विरोधालंकारः ॥ ८ ॥ इदानीं कामोपतप्ता

मलयानिलादीनधिक्षिपति -- <pratika>बाधामिति ।</pratika> हे मलयानिल, बाधां विधेहि पीडया

किं प्रतीक्षसे । हे पञ्चबाण, प्राणान् गृहाण । पञ्चभिर्बाणैः पञ्चापि प्राणांस्त्वं गृहाण ।

भवत इदमेव प्रयोजनम् । यस्मात्स्मरोऽपि तप्तं जनमुपताप्य गृहाभिमुखीकरोति ।

एतदर्थमेव स्वभावपरित्यागेनाप्युपकृतिर्विधेया । परं तु अहं बाध्यमानापि गृहीत-

प्राणापि पुनर्गृहं नाश्रयिष्ये श्रीकृष्णमेव शरणं व्रजिष्यामीति तावुपालभ्य पुनरु-

दीर्णस्मराथ यमुनामाह -- हे कृतान्तभगिनि, यमस्वसः, मलयानिलपञ्चबाणौ शैत्य-

संभोगकारणमपि पीडयतः तर्हि नहि त्वं यमस्य भगिनी ताभ्यां प्राणेषु गृहीतेषु

भ्रातुः किमुत्तरं दास्यसीति । तेन तव क्षमया क्षान्त्या किं, भ्रातुर्हितं समाचर मत्प्रा-

णार्पणेनेत्याह । तरङ्गैरूर्मिभिर्मम गात्राणि सिञ्च । तेषु सिक्तेषु माधवप्रात्या
प्त्या
देहदाहः शाम्यतु । तरङ्गसेकेनापि तदलाभे प्राणेषु गतेषु देहदाहः शान्तिमेष्यतीत्य-

 
वायुः शिखीवाग्निरिव दुनोति । अयं सुधारश्मिश्चन्द्र विषमिव दुनोति । तस्मिन्नेव

कृष्णेऽदये दयारहिते हृदयं पुनर्भूयोऽपि बलाद्धठाद्वलते । निवार्यमाणमपि तत्रैव गच्छतीत्यर्थः।

अतः कुवलयदृशां कमलनेत्राणां कामो निकाममत्यर्थं निरङ्कुशस्त्यक्तमर्यादोऽत एव

मे वामः प्रतिकूल:लः । अन्योन्यानुरागो हि कामो मनोहरो भवति अत्र तु स मयि

नीरागः केवलं ममैव चेतस्तत्र धावतीति वामता कामस्येति भावः ।
अत्र सखीनां

संवासस्य रिपुवत्, हिमानिलस्य वह्निवत्, सुधारश्मेर्विषवदपकारित्वं विरुद्धमिति

विरोधालंकारः । '"शिखिनौ वह्निबर्हिणौ'" इत्यमरः ॥ ८ ॥ संप्रति विरहदुःखमसहमाना

मलयानिलादीन्प्रार्थयति - - <pratika>बाधामिति । </pratika>हे मलयानिल मलयसंबन्धिवायो, बाधां पीडां

विधेहि कुरु । अत्र मलयचन्दनाश्रयत्वेन महाशयोऽतस्तदाश्रितस्य ते याचकप्रत्याख्यानं

नोचित मिति सूचनाय मलयानिलपदोपादानम् । हे पञ्चवाबाण, मम प्राणान्गृहाण ।

पञ्चभिर्वाबाणैः पञ्चानामपि प्राणानां ग्रहणं कामस्योचितमिति सूचनाय पञ्चपदोपादानम् ।

ननु कृष्णेन चेदुपेक्षिता तदा गृहं किमिति न गच्छसीत्यत आह -- <pratika>न गृहमिति ।
</pratika>
गृहं पुनः येन भूयो गृहं नाश्रयिष्ये । तेन विना गृहमपि मे संतापजनकमेव भविष्यतीति

भावः । हे कृतान्तभगिनि, ते क्षमया सहिष्णुतया किम् । किं प्रयोजनमित्यर्थः ।

तरङ्गैरूर्मिभिर्मेऽङ्गानि सिञ्च प्लावय । देहदाहो विरहजन्यो देहदाहः शाम्यतु निवर्तताम् ।

कृतान्तो निर्दयस्तद्भगिन्यास्तेऽपि दया न युक्तेत्याख्यापनाय कृतान्तेत्युपात्तम्
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri