This page has not been fully proofread.

११४
 
गीतगोविन्दकाव्यम्
 
बाधां विधेहि मलयानिल पञ्चबाण
 
प्राणान्गृहाण न गृहं पुनराश्रयिष्ये ।
किं ते कृतान्तभगिनि क्षमया तरङ्गै-
रङ्गानि सिञ्च मम शाम्यतु देहदाहः ॥ ९ ॥
 
[ सर्गः ७
 
इव मनो दुनोति । अपि च अमृतदीधितिर्हालाहलमिव मनो दुनोति । एवमप्यर्थे
तस्मिन्नप्यदये हृदयं पुनर्बलाद्वलते तदभिमुखीभवति किं तर्हि क्रियते स्त्रैणस्थि-
तिरियम् । कुवलयदृशां निकामनिरङ्कुशः कामो वाम एव वर्तते । निकाम निरङ्कुशः
अतिशयोच्छृङ्खलः । अत्र हरिणीवृत्तम् । विरोधालंकारः ॥ ८ ॥ इदानीं कामोपतप्ता
मलयानिलादीनधिक्षिपति-बाधामिति । हे मलयानिल, बाधां विधेहि पीडया
किं प्रतीक्षसे । हे पञ्चबाण, प्राणान् गृहाण । पञ्चभिर्बाणैः पञ्चापि प्राणांस्त्वं गृहाण ।
भवत इदमेव प्रयोजनम् । यस्मात्स्मरोऽपि तप्तं जनमुपताप्य गृहाभिमुखीकरोति ।
एतदर्थमेव स्वभावपरित्यागेनाप्युपकृतिर्विधेया । परं तु अहं बाध्यमानापि गृहीत-
प्राणापि पुनर्गृहं नाश्रयिष्ये श्रीकृष्णमेव शरणं व्रजिष्यामीति तावुपालभ्य पुनरु-
दीर्णस्मराथ यमुनामाह - हे कृतान्तभगिनि, यमस्वसः, मलयानिलपञ्चबाणौ शैय-
संभोगकारणमपि पीडयतः तर्हि नहि त्वं यमस्य भगिनी ताभ्यां प्राणेषु गृहीतेषु
भ्रातुः किमुत्तरं दास्यसीति । तेन तव क्षमया क्षान्त्या किं, भ्रातुर्हितं समाचर मत्प्रा-
णार्पणेनेत्याह । तरङ्गैरूर्मिभिर्मम गात्राणि सिञ्च । तेषु सिक्तेषु माधवप्रात्या
देहदाहः शाम्यतु । तरङ्गसेकेनापि तदलाभे प्राणेषु गतेषु देहदाहः शान्तिमेष्यतीत्य-
वायुः शिखीवाग्निरिव दुनोति । अयं सुधारश्मिश्चन्द्र विषमिव दुनोति । तस्मिन्नेव
कृष्णेऽदये दयारहिते हृदयं पुनर्भूयोऽपि बलाद्धठाइते । निवार्यमाणमपि तत्रैव गच्छतीत्यर्थः।
अतः कुवलयदृशां कमलनेत्राणां कामो निकाममत्यर्थं निरङ्कुशस्त्यक्तमर्यादोऽत एव
मे वामः प्रतिकूल: । अन्योन्यानुरागो हि कामो मनोहरो भवति अत्र तु स मयि
नीरागः केवलं ममैव चेतस्तत्र धावतीति वामता कामस्येति भावः ।
अत्र सखीनां
संवासस्य रिपुवत्, हिमानिलस्य वह्निवत्, सुधारइमेविषवदपकारित्वं विरुद्धमिति
विरोधालंकारः । 'शिखिनौ वह्निबर्हिणौ' इत्यमरः ॥ ८ ॥ संप्रति विरहदुःखमसहमाना
मलयानिलादीन्प्रार्थयति- बाधामिति । हे मलयानिल मलयसंबन्धिवायो, बाधां पीडां
विधेहि कुरु । अत्र मलयचन्दनाश्रयत्वेन महाशयोऽतस्तदाश्रितस्य ते याचकप्रत्याख्यानं
नोचित मिति सूचनाय मलयानिलपदोपादानम् । हे पञ्चवाण, मम प्राणान्गृहाण ।
पञ्चभिर्वाणैः पञ्चानामपि प्राणानां ग्रहणं कामस्योचितमिति सूचनाय पञ्चपदोपादानम् ।
ननु कृष्णेन चेदुपेक्षिता तदा गृहं किमिति न गच्छसीत्यत आह —न गृहमिति ।
गृहं पुनः येन भूयो गृहं नाश्रयिष्ये । तेन विना गृहमपि मे संतापजनकमेव भविष्यतीति
भावः । हे कृतान्तभगिनि, ते क्षमया सहिष्णुतया किम् । किं प्रयोजनमित्यर्थः ।
तरङ्गैरूर्मिभिर्मेऽङ्गानि सिञ्च प्लावय । देहदाहो विरहजन्यो देहदाहः शाम्यतु निवर्तताम् ।
कृतान्तो निर्दयस्तद्भगिन्यास्तेऽपि दया न युक्तेत्याख्यापनाय कृतान्तेत्युपात्तम्
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri