This page has been fully proofread once and needs a second look.

सर्गः ७] रसिकप्रिया-
रसमञ्जर्याख्यटीकाद्वयोपेतम्
 
११३
 
मनोभवानन्दन चन्दनानिल प्रसीद रे दक्षिण मुञ्च वामताम् ।

क्षणं जगत्प्राण विधाय माधवं पुरो मम प्राणहरो भविष्यसि ॥७॥

 
रिपुरिव सखीसंवासोऽयं शिखीव हिमानिलो
॥ १ ॥

विषमिव सुधारश्मिर्यस्मिन्दुनोति मनोगते ।

हृदयमदये तस्मिन्नेवं पुनर्वलते बला-

त्कुवलयदृशां वामः कामो निकामनिरङ्कुशः ॥ ८ ॥
 

 
सखीं प्रोच्य अन्तरा पुनः सव्याजं कालविलम्बं कृत्वा पुनः स्मरशरासहा मलयानि -
-
लमुपालब्धुमाह -- <pratika>मनोभवेति । </pratika>हे चन्दनानिल, जगदाहादक, प्रसीद विपरीत-
लक्षणया क्षमां कुरु । कथं वैपरीत्यम् । यतः
जगदाह्लादक, प्रसीद विपरीत-
लक्षणया क्षमां कुरु । कथं वैपरीत्यम् । यतः जगदाह्लादकस्व
रूपप्रच्युत्या मम रिपोर्म-

नोभवस्य आनन्दमकरोः अतो मनोभवानन्दन, प्रसीद क्षमां कुरु । दक्षिणोऽहमिति

कृत्वा हिताहितलक्षणवक्रतानभिज्ञत्वान्नोपालभ्योऽहमिति वदसीति चेत्तर्हि जितम् ।

हे दक्षिण, क्षणं क्षणमात्रं वामतां मुञ्च । कृतजगत्प्राणस्य मे सर्वसाधारण्येन

नेयं प्रकृतिरिति चेत् । हे जगत्प्राण अङ्गीकृतजगत्प्राण, त्वं माधवं पुरो-

धाय अग्रे कृत्वा सांप्रतमेव मम प्राणहरो भविष्यसि । तर्हि साधु चेष्टितम् ।

नाहमस्या मरणनिमित्तं किंतु माधव इतीदमेव वामताया विलसितमिति । अत्र

वंशस्थं वृत्तम् । अतिशयोक्तिरलंकारः ॥ ७ ॥ इदानीं स्वचित्त मेवोपालभते -- <pratika>रिपु
-
रिवेति ।</pratika> हे सखि, यस्मिन्गते सति अन्यत्र स्थिते सति अथवाऽज्ञातस्वरूपे सति

अयमनुकूलोऽपि सखीसंवासः रिपुरिव मनो दुनोति । अनु च शीतो वायुः ज्वलन

 
त्यर्थः ॥ ६ ॥ संप्रत्यनिलमेव संतापदं मत्वोपालभते -- <pratika>मनोभवेति ।</pratika> हे चन्दनानिल

चन्दनसंबन्धिवायो, मे मम प्रसीद प्रसादं कुरु । हे दक्षिण, सर्वेषां विलासिनामनुकू-

लस्वभाव, वामतां प्रतिकूलतां मुञ्च । अत्र चन्दनतरुसंगतस्य वामत्वं नोचित मिति

चन्दनानिलदक्षिणपदाभ्यां ध्वनितम् । वामत्वे हेतुगर्भविशेषणमाह -- <pratika>मनोभवेति ।
</pratika>
मनोभवं काममानन्दयतीति नोभवानन्दनः । तथा च । मम वैरी कामस्तं यदानन्दयसि

तदेव प्रतिकूलमाचरसीति भावः । यदि च वामतां न मुञ्चसि तदा माधवं कृष्णं

जनं मम पुरोऽग्रे निधाय पश्चात्तद्दर्शनं कृत्वाथ प्राणहरः प्राणानां हर्ता भविष्यसि ।

यथा विरहिणीं मां व्यथयसि तथा मया विरहितं तमपि संतापय । यथा मदन्तिकं स

आयास्यतीति भावः । एतेन जगत्प्राणहरणे वायोः सामर्थ्यं ध्वनितन् । यद्वा

चन्दनानिल, क्षणं वामांमतां मुञ्च । माधवं पुरो निधाय पश्चान्मम प्राणहरो भविष्यसीत्यन्वयः ।

शेषं पूर्ववत् । जगत्प्राण जगतां प्राणभूत । न तु ते कृष्णस्यानयनतत्प्राणानामसंध्ये (?)
प्रति

प्रति
येच ' च "द्रविणे चापि सुन्दरे'" इति विश्वः । '"दक्षिण:णः सरलोदारपरच्छन्दानुवर्तिषु'
"
इति च ॥ ॥ अधुना ममैवापराधो नान्यस्येत्याह -- <pratika>रिपुरिवेति ।</pratika> यस्मिन्कृष्णे

मनोगते चेतसि कृते सति सखीसंवासः सखीभिः सहावस्थानं रिपुरिव शत्रुरिव

दुनोत्युपतापयति । सखीर्दृष्ट्वा तत्कृतालंकाररचनापरिहासवासभवन परिष्कारादिस्मरणेना-

धिकतर उपतापो भवतीति भावः । अयं च हिमानिलो हिमगर्भोऽप्यतिशीतलोऽपि
१२ गीत•
 

 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri