2022-10-18 04:14:15 by ambuda-bot
This page has not been fully proofread.
सर्गः ७] रसिकप्रिया-
रसमञ्जर्याख्यटीकाद्वयोपेतम्
११३
मनोभवानन्दन चन्दनानिल प्रसीद रे दक्षिण मुञ्च वामताम् ।
क्षणं जगत्प्राण विधाय माधवं पुरो मम प्राणहरो भविष्यसि ॥७॥
रिपुरिव सखीसंवासोऽयं शिखीव हिमानिलो
॥ १ ॥ विषमिव सुधारश्मिर्यस्मिन्दुनोति मनोगते ।
हृदयमदये तस्मिन्नेवं पुनर्वलते बला-
त्कुवलयदृशां वामः कामो निकामनिरङ्कुशः ॥ ८ ॥
सखीं प्रोच्य अन्तरा पुनः सव्याजं कालविलम्बं कृत्वा पुनः स्मरशरासहा मलयानि -
लमुपालब्धुमाह — मनोभवेति । हे चन्दनानिल, जगदाहादक, प्रसीद विपरीत-
लक्षणया क्षमां कुरु । कथं वैपरीत्यम् । यतः जगदाह्लादकखरूपप्रच्युत्या मम रिपोर्म-
नोभवस्य आनन्दमकरोः अतो मनोभवानन्दन, प्रसीद क्षमां कुरु । दक्षिणोऽहमिति
कृत्वा हिताहितलक्षणवऋतानभिज्ञत्वान्नोपालभ्योऽहमिति वदसीति चेत्तर्हि जितम् ।
हे दक्षिण, क्षणं क्षणमात्रं वामतां मुञ्च । कृतजगत्प्राणस्य मे सर्वसाधारण्येन
नेयं प्रकृतिरिति चेत् । हे जगत्प्राण अङ्गीकृतजगत्प्राण, त्वं माधवं पुरो-
धाय अग्रे कृत्वा सांप्रतमेव मम प्राणहरो भविष्यसि । तर्हि साधु चेष्टितम् ।
नाहमस्या मरणनिमित्तं किंतु माधव इतीदमेव वामताया विलसितमिति । अत्र
वंशस्थं वृत्तम् । अतिशयोक्तिरलंकारः ॥ ७ ॥ इदानीं स्वचित्त मेवोपालभते – रिपु
रिवेति । हे सखि, यस्मिन्गते सति अन्यत्र स्थिते सति अथवाऽज्ञातस्वरूपे सति
अयमनुकूलोऽपि सखीसंवासः रिपुरिव मनो दुनोति । अनु च शीतो वायुः ज्वलन
त्यर्थः ॥ ६ ॥ संप्रत्यनिलमेव संतापदं मत्वोपालभते – मनोभवेति । हे चन्दनानिल
चन्दनसंबन्धिवायो, मे मम प्रसीद प्रसादं कुरु । हे दक्षिण, सर्वेषां विलासिनामनुकू-
लस्वभाव, वामतां प्रतिकूलतां मुञ्च । अत्र चन्दनतरुसंगतस्य वामत्वं नोचित मिति
चन्दनानिलदक्षिणपदाभ्यां ध्वनितम् । वामत्वे हेतुगर्भविशेषणमाह — मनोभवेति ।
मनोभवं काममानन्दयतीति भनोभवानन्दनः । तथा च । मम वैरी कामस्तं यदानन्दयसि
तदेव प्रतिकूलमाचरसीति भावः । यदि च वामतां न मुञ्चसि तदा माधवं कृष्णं
जनं मम पुरोऽग्रे निधाय पश्चात्तद्दर्शनं कृत्वाथ प्राणहरः प्राणानां हर्ता भविष्यसि ।
यथा विरहिणीं मां व्यथयसि तथा मया विरहितं तमपि संतापय । यथा मदन्तिकं स
आयास्यतीति भावः । एतेन जगत्प्राणहरणे वायोः सामर्थ्य ध्वनितन् । यद्वा
चन्दनानिल, क्षणं वामां मुञ्च । माधवं पुरो निधाय पश्चान्मम प्राणहरो भविष्यसीत्यन्वयः ।
शेषं पूर्ववत् । जगत्प्राण जगतां प्राणभूत । न तु ते कृष्णस्यानयनतत्प्राणानामसंध्ये (?)
प्रतियेच 'द्रविणे चापि सुन्दरे' इति विश्वः । 'दक्षिण: सरलोदारपरच्छन्दानुवर्तिषु'
इति च ॥ ॥ अधुना ममैवापराधो नान्यस्येत्याह – रिपुरिवेति । यस्मिकृष्णे
मनोगते चेतसि कृते सति सखीसंवासः सखीभिः सहावस्थानं रिपुरिव शत्रुरिव
दुनोत्युपतापयति । सखीदृष्ट्वा तत्कृतालंकाररचनापरिहासवासभवन परिष्कारादिस्मरणेना-
धिकतर उपतापो भवतीति भावः । अयं च हिमानिलो हिमगर्भोऽप्यतिशीतलोऽपि
१२ गीत•
७
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri