This page has not been fully proofread.

११२
 
गीतगोविन्दकाव्यम्
 
[ सर्गः ७
 
सकलभुवनजनवरतरुणेन ।
 
वहति न सा रुजमतिकरुणेन ॥ सखि या० ॥ ७ ॥
श्रीजयदेवभणितंवचनेन ।
 
प्रविशतु हरिरपि हृदयमनेन । सखि या० ॥ ८ ॥
 
तेन । अथवा कनकस्य निकषः निकषोपलरेखा तत्कान्तिविमलवस्त्रेण । सा गोपिका
परिजनहसनेन न श्वसिति निःश्वासवती न भवति । पक्षे या काषायवसनादिना
संगता भवति सा परिजनैरुपहसिता दीर्घान्निःश्वासान्मुञ्चत्येव ॥ ६ ॥ अपि च ।
सकलेति । किंभूतेन हरिणा । सकलभुवनजनश्रेष्ठतरुणेन सातीव निर्भररसेनापि
रुजं पीडां न धारयति । या किल सकलेष्वपि भुवनेषु वरतरुणेनोपभुज्यते तस्यास्तु
एकैकस्यापि विरहेण शोको भवतीति निन्दा ॥ ७ ॥ अपि च । श्रीजयदेवेति ।
अनेन श्रीजयदेवभणितं च तद्वचनं च तेन हेतुना हरिः श्रीकृष्णः हृदयं प्रविशतु ।
अर्थाद्राधायाः । अथवा अयं हरिः हृत्प्रविशतु । अपिशब्दात्तदारोपकरणवचनानि
च ॥ तथा च सङ्गीतराजे — 'रागो वराटिका यत्र तालो वर्णयतिस्तथा । पदानि
स्वेच्छयालापभूषितानि यथाद्युति ॥ ततः स्वराश्च पाटाश्च ततः पद्यानि कानिचित् ।
इति नारायणपदान्मदनायासनामकः ॥ प्रबन्धः क्षितिनाथेन लोकनाथस्य वर्णितः' ॥
इति नारायणमदनायासनामा षोडशः प्रबन्धः ॥ ८ ॥ चेतो यास्यतीति
 
जनानां हास्येन न श्वसिति न संतापनि:श्वासं त्यजति । कीदृशेन वनमालिना । कनकनिकष :
सुवर्णकषणपट्टिका तस्येव रुचिदीप्तिर्यस्यैतादृशं शुच्यनुपहृतं वस्त्रं यस्य तेन ।
अत्र कनकपदेनैव पीतत्वे प्राप्तेऽपि स्निग्धत्वाप्राप्तये निकषपदोपादानम् । अथवा या
वनमालिना रमिता सा परिजनहसनेन न श्वसिति । अपि तु श्वसित्यवेत्यर्थः । 'निकष:
कषपट्टिका' इति हारावली । 'शुचिः शुद्धेऽनुपहते' इति विश्वः ॥ ६ ॥ सकलेति ।
या वनमालिना रमिता सातिकरुणेनातिशयितकरुणारसेनोपलक्षिता सती रुजं तद्विश्लेषजन्यां
व्याध्यवस्थां तद्वन्न वहति धारयति । कीदृशेन वनमालिना । सकलभुवने
समस्तलोके ये जनास्तेभ्योऽपि वरतरुणेन श्रेष्ठतरुणेन । अथवा या वनमालिना रमिता
सातिकरुणेनोपलक्षिता रुजं न वहति । अपि तु वहत्येवेत्यर्थः । अस्मिन्पक्षेऽतिकरुणेति
कृष्णस्य विशेषणम् । तदतिक्रान्ता करुणा दया यस्य तादृशेन निर्दयेनेत्यर्थः । 'करुणस्तु
रसे वृक्षे कृपायां करुणा मता' इति विश्वः ॥ ७ ॥ श्रीजयदेवेति । अनेन
जयदेवभणितमिलनेन श्रीजयदेवेन कविना भणितं वर्णितं यन्मिलनं कृष्णस्य कामिन्या
सहेत्यर्थः । त्वां ते (?) हरिरपि कृष्णोऽपि हृदयमर्थाद्गातॄणां श्रोतॄणां प्रविशतु । यद्वा
श्रीजयदेवभणितस्य यन्मिलनं संबन्धोऽध्ययनगानरूपस्तेन हरिरपि हृदयं प्रविशत्वि-
११ 'भणितमिलनेन' इति पाठः ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri