This page has been fully proofread once and needs a second look.

सर्गः ७ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् १११
 
अमृतमधुरमृदुतरवचनेन ।
 

ज्वलति न सा मलयजपवनेन । सखि या० ॥ ३ ॥

 
स्थलजलरुहरुचिकरचरणेन ।
 

लुठति न सा हिमकरकिरणेन ॥ सखि या० ॥ ४ ॥

 
सजलजलदसमुद्यरुचिरेण ।
 

दलति न सा हृदि चिरविरहेण ॥ सखि या० ॥ ५ ॥

 
कनकनिकषरुचिशुचिवसनेन ।
 

श्वसिति न सा परिजनहसनेन ॥ सखि या० ॥ ६ ॥
 

 
भवति । पक्षे विलासकलाविमुखेन । केवलं प्रसारितमुखेन संभोगमाप्नोति । सा मद-

नबाणैर्मनसि न विध्यते ? अपि तु विध्यत एव ॥ २ ॥ अपि च । <pratika>अमृतेति ।</pratika> किंभू-

तेन हरिणा । अमृतवन्मधुरतरं कोमलं वचनं यस्य तेन । सा मलयानिलेन न

ज्वलति न दीप्यते । अतिप्रियवचनस्य दाता न भावं द्योतयति । तेन '"प्रियवाक् स्त्री (?)

शीलः स्त्रीणां भवति वल्लभः'" इति वाल्लभ्यनिरासान्मनोऽनवस्थानान्मलयमारुतेन

ज्वलत्येव ॥३॥ अपि च । <pratika>स्थलेति । </pratika>किंभूतेन हरिणा । स्थलकमलकान्तिकरचरणेन

सा गोपिका चन्द्रकिरणेन न लुठति न भूमौ परिवर्तते । ततः पक्षे स्थलकमलग्रहणेन

तदङ्गस्य तस्यापद्दायित्वमुक्तम् ॥ ४ ॥ अपि च । <pratika>सजलेति ।</pratika> किंभूतेन हरिणा ।

सजलजलदोदयवद्दीप्तिमता । सा गोपिका हृदि दुःसहविरहभरेण न दीर्यते । पक्षे

अत्र सजलजलदग्रहणेनैव विरहेण संयोगेऽपि प्रियविरहसाम्यमिति निन्दार्थः ॥ ५ ॥

अपि च । <pratika>कनकेति । </pratika>किंभूतेन हरिणा । कनकनिकषश्यामरुचिश्चासौ शुचिवसन
 
या
 
श्च
 
तद्वल्ललितं मनोहरं मुखं यस्य तेन । मुखहास्यत्वेन विकसितपद्मसाम्यं बोध्यम् । अथ च

या विकसितेन सरसिजललितमुखेन वनमालिना रमिता सा मनसिजविशिखेन न स्फुटति ।

अपि तु स्फुटत्येवेति पूर्ववत् ॥ २ ॥ अथ च । <pratika>अमृतेति ।</pratika> वनमालिना रमिता

सा मलयजपवनेन मलयगिरिजातेन वातेन न ज्वलति न दीप्यते । कीदृशेन वनमालिना ।

अमृतादपि मधुरं मृदुतरमतिशयेन कोमलवचनं यस्य तेन । अमृतेत्याधुद्युचितविशेषणोपपत्त्या

चामृतसेकेन ज्वलनाभावस्योचितत्वात् । अथ चामृतमधुरमृदुतरवचनेन वनमालिना

या
रमिता सा मलयजपवनेन न ज्वलति । अपि तु ज्वलत्येवेति ॥ ३ ॥

<pratika>
स्थलजलेति ।</pratika> कीदृशेन वनमालिना । स्थलोद्भवं जलरुहं कमलं तद्वद्रुचिर्ययोस्तादृशौ

करौ चरणौ यस्य तेन । अथ च या वनमालिना रमिता सा हिमकरकिरणेन न

लुठति किं । अपि तु लुठत्येव ॥ ४ ॥ <pratika>सजलेति । </pratika>अथ च या वनमालिना रमिता सा

विरहाधिक्येन हृदि हृदये न दलति न दीर्यते । पुनः कीदृशेन । सजलो जलसहितो

यो जलदो मेघस्तत्समुदयवद्रुचिरेण । अथ च या वनमालिना रमिता सा विरहभरेण

हृदि न दलति । अपि तु दलत्येवेत्यर्थः ॥ ५ ॥ <pratika>कनकेति । </pratika>या वनमालिना रमिता सा

परिजनानां हसनेन इयती लज्जा रोदितीत्यादिपरिजनहासेन । यद्वा । परितः सर्वतो
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri