2022-10-18 04:14:15 by ambuda-bot
This page has not been fully proofread.
सर्गः ७ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् १११
अमृतमधुरमृदुतरवचनेन ।
ज्वलति न सा मलयजपवनेन । सखि या० ॥ ३ ॥
स्थलजलरुहरुचिकरचरणेन ।
लुठति न सा हिमकरकिरणेन ॥ सखि या० ॥ ४ ॥
सजलजलदसमुद्यरुचिरेण ।
दलति न सा हृदि चिरविरहेण ॥ सखि या० ॥ ५ ॥
कनकनिकषरुचिशुचिवसनेन ।
श्वसिति न सा परिजनहसनेन ॥ सखि या० ॥ ६ ॥
भवति । पक्षे विलासकलाविमुखेन । केवलं प्रसारितमुखेन संभोगमाप्नोति । सा मद-
नबाणैर्मनसि न विध्यते ? अपि तु विध्यत एव ॥ २ ॥ अपि च । अमृतेति । किंभू-
तेन हरिणा । अमृतवन्मधुरतरं कोमलं वचनं यस्य तेन । सा मलयानिलेन न
ज्वलति न दीप्यते । अतिप्रियवचनस्य दाता न भावं द्योतयति । तेन 'प्रियवाक् स्त्री (?)
शीलः स्त्रीणां भवति वल्लभः' इति वाल्लभ्यनिरासान्मनोऽनवस्थानान्मलयमारुतेन
ज्वलत्येव ॥३॥ अपि च । स्थलेति । किंभूतेन हरिणा । स्थलकमलकान्तिकरचरणेन
सा गोपिका चन्द्रकिरणेन न लुठति न भूमौ परिवर्तते । ततः पक्षे स्थलकमलग्रहणेन
तदङ्गस्य तस्यापद्दायित्वमुक्तम् ॥ ४ ॥ अपि च । सजलेति । किंभूतेन हरिणा ।
सजलजलदोदयवद्दीप्तिमता । सा गोपिका हृदि दुःसहविरहभरेण न दीर्यते । पक्षे
अत्र सजलजलदग्रहणेनैव विरहेण संयोगेऽपि प्रियविरहसाम्यमिति निन्दार्थः ॥ ५ ॥
अपि च । कनकेति । किंभूतेन हरिणा । कनकनिकषश्यामरुचिश्चासौ शुचिवसनच
या
तद्वललितं मनोहरं मुखं यस्य तेन । मुखहास्यत्वेन विकसितपद्मसाम्यं बोध्यम् । अथ च
या विकसितेन सरसिजललितमुखेन वनमालिना रमिता सा मनसिजविशिखेन न स्फुटति ।
अपि तु स्फुटत्येवेति पूर्ववत् ॥ २ ॥ अथ च । अमृतेति । वनमालिना रमिता
सा मलयजपवनेन मलयगिरिजातेन वातेन न ज्वलति न दीप्यते । कीदृशेन वनमालिना ।
अमृतादपि मधुरं मृदुतरमतिशयेन कोमलवचनं यस्य तेन । अमृतेत्याधुचितविशेषणोपपत्त्या
चामृतसेकेन ज्वलनाभावस्योचितत्वात् । अथ चामृतमधुरमृदुतरवचनेन वनमालिना
रमिता सा मलयजपवनेन न ज्वलति । अपि तु ज्वलत्येवेति ॥ ३ ॥
स्थलजलेति । कीदृशेन वनमालिना । स्थलोद्भवं जलरुहं कमलं तद्वद्रुचिर्ययोस्तादृशौ
करौ चरणौ यस्य तेन । अथ च या वनमालिना रमिता सा हिमकरकिरणेन न
लुठति किं । अपि तु लुठत्येव ॥ ४ ॥ सजलेति । अथ च या वनमालिना रमिता सा
विरहाधिक्येन हृदि हृदये न दलति न दीर्यते । पुनः कीदृशेन । सजलो जलसहितो
यो जलदो मेघस्तत्समुदयवद्रुचिरेण । अथ च या वनमालिना रमिता सा विरहभरेण
हृदि न दलति । अपि तु दलत्येवेत्यर्थः ॥ ५ ॥ कनकेति । या वनमालिना रमिता सा
परिजनानां हसनेन इयती लज्जा रोदितीत्यादिपरिजनहासेन । यद्वा । परितः सर्वतो
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri