This page has been fully proofread once and needs a second look.

गीतगोविन्दकाव्यम्
 
[ सर्गः ७
 
<bold>देशवरांरा[^१]डीरागेण रूपकतालेन गीयते ॥ प्र० ॥ १६ ॥
 
</bold>
 
अनिलतरलकुवलयनयनेन ।
 

तपति न सा किसलयशयनेन ।
 

सखि या रमिता वनमालिना ॥ ध्रुवम् ॥ १ ॥

 
विकसितसरसिजललितमुखेन ।
 
११०
 

स्फुटति न सा मनसिजविशिखेन ॥ सखि या० ॥ २ ॥

 
न्यनायिकामग्नत्वेन निन्दा स्तुतिपरत्वेनाह - - <pratika>अनिलेति । </pratika>तत्र पूर्वं ध्रुवपदं यथा ।

<pratika>
सखि येति ।</pratika> हे सखि, या गोपिका वनमालिना हरिणा रमिता । रमणमिता

रमिता । अथवा रमः संजातो यस्य इति वनमालिना सह क्रीडितेत्यर्थः । अथवो-

द्यानविहारादिभिर्हरिणा वा रममाणा गोपिका हरिणैव तद्विशेषक्रीडने नियुक्ता ।

आत्मना सह क्रीडनार्थं प्रेरितेति यावत् । अथवा वनमालिना सह कामेन रन्तुं प्रेरिता

तत्रैव साभिलाषा क्रीडापरा बभूवेत्यर्थः । निन्दापक्षे तु । वनमालिनेति मालायाः

सद्भावात्तस्याः संभोगपराङ्मुखत्वं सूचितम् । वनलक्ष्म्या मलिनेवेतस्ततः पुष्परसा-

स्वादात् । इति ध्रुवः ॥ अथ पदानि । <pratika>अनिलेति ।</pratika> तत्र प्रतिपदमेकैकं विशेष-

णम् । तृतीयान्तं वनमालिनः प्रथमान्तं च या इति पदोपलक्षितायास्तस्याः । तत्रापि

च ध्रुवपद।दाद्विशेषणानां वैपरीत्येन । पक्षे एतद्विपरीतोऽर्थः सूचितो भवति । किंभूतेन

वनमालिना । अनिलेन तरले ये नीलोत्पले ते इव । नीले कमले इव नयने यस्य ।

सा गोपिका किसलयशयनेन न तपति नोपतप्ता भवति । पक्षे या किलान्यमनस्केन

प्रियान्तरनिरीक्षण प्रहितचञ्चललोचनेनोपभुज्यते सा किसलयशयनेऽपि न तपतीति

न । अपि तु तापं प्राप्नोत्येव ॥ १ ॥ अपि च । <pratika>विकसितेति । </pratika>किंभूतेन

हरिणा । स्फुटितारविन्दमिव मनोहराननेन सा गोपिका कामबाणेन विद्धा न
 

 
तिभोगलक्ष्योऽपि निर्भयः'" इति ॥ ६॥ संप्रति कृष्णेन रममाणायाः सौभाग्यसुखं तद्विरहिण्याश्च

संतापंमष्टपद्या कथयति -- <pratika>अनिलेति । </pratika>गीतस्यास्य देशाख्यरागो
 
रूपकताल:
 
लः
गीतार्थस्तु हे सखि, या वनमालिना कृष्णेन रमिता क्रीडिता सा किसलयशयने पल्लवशय्यायां

न तपति नोपतप्ता भवति । कृष्णाङ्गसङ्गे तत्सुखपदमेव भवतीति भावः । कीदृशेन

वनमालिना । अनिलेन वायुना तरलेऽनिलवद्वा तरले चञ्चले कुवलये तद्वन्नयने यस्य तेन ।

नायिकासंनिधौ साध्वसवशाच्चञ्चलनेत्रेणेत्यर्थः । अथवा या रमितेत्यत्र अश्लेषः 1

तथा च या वनमालिना अरमिता सा किसलयशयने न तपतीति, अपि तु तपत्येव 1

<error>
नद्वये</error><fix>नद्वयेन</fix> प्रकृतस्यैवार्थस्य प्राप्तेः । यद्वा । किसलयशयनेनेत्येवं तृतीयैव । नञ् शिरश्चालने ।

तथा चायमर्थः 1 या रमिता वनमालिना किसलयशयनेन न तपति .

अपि तु तपत्येव चेति काक्कावा लभ्यते । '"अनिलो वसुवातयोः'" इति विश्वः ॥ १ ॥

अथ च । <pratika>विकसितेति । </pratika>या वनमालिना रमिता सा मनसिजविशिखेन कामबाणेन न

स्फुटति न द्विधा भवति । कीदृशेन वनमालिना । विकसितं पुष्पितं यत्सरसिजं पद्
मं
 
[^
'.] "देशाङ्करा" ' "देशाख्यरा" इति च पाठः ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri