This page has not been fully proofread.

गीतगोविन्दकाव्यम्
 
[ सर्गः ७
 
देशवरांडीरागेण रूपकतालेन गीयते ॥ प्र० ॥ १६ ॥
 
अनिलतरलकुवलयनयनेन ।
 
तपति न सा किसलयशयनेन ।
 
सखि या रमिता वनमालिना ॥ ध्रुवम् ॥ १ ॥
विकसितसरसिजललितमुखेन ।
 
११०
 
स्फुटति न सा मनसिजविशिखेन ॥ सखि या० ॥ २ ॥
न्यनायिकामग्नत्वेन निन्दा स्तुतिपरत्वेनाह - अनिलेति । तत्र पूर्वं ध्रुवपदं यथा ।
सखि येति । हे सखि, या गोपिका वनमालिना हरिणा रमिता । रमणमिता
रमिता । अथवा रमः संजातो यस्य इति वनमालिना सह क्रीडितेत्यर्थः । अथवो-
द्यानविहारादिभिर्हरिणा वा रममाणा गोपिका हरिणैव तद्विशेषक्रीडने नियुक्ता ।
आत्मना सह क्रीडनार्थं प्रेरितेति यावत् । अथवा वनमालिना सह कामेन रन्तुं प्रेरिता
तत्रैव साभिलाषा क्रीडापरा बभूवेत्यर्थः । निन्दापक्षे तु । वनमालिनेति मालायाः
सद्भावात्तस्याः संभोगपराङ्मुखत्वं सूचितम् । वनलक्ष्म्या मलिनेवेतस्ततः पुष्परसा-
स्वादात् । इति ध्रुवः ॥ अथ पदानि । अनिलेति । तत्र प्रतिपदमेकैकं विशेष-
णम् । तृतीयान्तं वनमालिनः प्रथमान्तं च या इति पदोपलक्षितायास्तस्याः । तत्रापि
च ध्रुवपद।द्विशेषणानां वैपरीत्येन । पक्षे एतद्विपरीतोऽर्थः सूचितो भवति । किंभूतेन
वनमालिना । अनिलेन तरले ये नीलोत्पले ते इव । नीले कमले इव नयने यस्य ।
सा गोपिका किसलयशयनेन न तपति नोपतप्ता भवति । पक्षे या किलान्यमनस्केन
प्रियान्तरनिरीक्षण प्रहितचञ्चललोचनेनोपभुज्यते सा किसलयशयनेऽपि न तपतीति
न । अपि तु तापं प्राप्नोत्येव ॥ १ ॥ अपि च । विकसितेति । किंभूतेन
हरिणा । स्फुटितारविन्दमिव मनोहराननेन सा गोपिका कामबाणेन विद्धा न
 
तिभोगलक्ष्योऽपि निर्भयः' इति ॥ ६॥ संप्रति कृष्णेन रममाणायाः सौभाग्यसुखं तद्विरहिण्याश्च
संतापंमष्टपद्या कथयति — अनिलेति । गीतस्यास्य देशाख्यरागो
 
रूपकताल:
 
गीतार्थस्तु हे सखि, या वनमालिना कृष्णेन रमिता क्रीडिता सा किसलयशयने पल्लवशय्यायां
न तपति नोपतप्ता भवति । कृष्णाङ्गसङ्गे तत्सुखपदमेव भवतीति भावः । कीदृशेन
वनमालिना । अनिलेन वायुना तरलेऽनिलवद्वा तरले चञ्चले कुवलये तद्वन्नयने यस्य तेन ।
नायिकासंनिधौ साध्वसवशाच्चञ्चलनेत्रेणेत्यर्थः । अथवा या रमितेत्यत्र अश्लेषः 1
तथा च या वनमालिना अरमिता सा किसलयशयने न तपतीति, अपि तु तपत्येव 1
नद्वये प्रकृतस्यैवार्थस्य प्राप्तेः । यद्वा । किसलयशयनेनेत्येवं तृतीयैव । नञ् शिरश्चालने ।
तथा चायमर्थः 1 या रमिता वनमालिना किसलयशयनेन न तपति .
अपि तु तपत्येव चेति काक्का लभ्यते । 'अनिलो वसुवातयोः' इति विश्वः ॥ १ ॥
अथ च । विकसितेति । या वनमालिना रमिता सा मनसिजविशिखेन कामबाणेन न
स्फुटति न द्विधा भवति । कीदृशेन वनमालिना । विकसितं पुष्पितं यत्सरसिजं पद्म
१ 'देशाङ्करा" ' देशाख्यरा" इति च पाठः ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri