This page has not been fully proofread.

सर्गः ७] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् १०९
पश्याद्य प्रियसंगमाय दयितस्याकृष्यमाणं गुणै-
रुत्कण्ठार्तिभरादिव स्फुटदिदं चेतः स्वयं यास्यति ॥ ६ ॥
 

 
विपरीताचरणेति मदीयमेव दैवं बलवत्तरमित्याह – हे सखि, पश्य जानीहि । बहु-
तरं ज्ञास्यसि वा । इदं हृदयं चेतो यास्यति । किंभूतं चेतः । स्वयं स्फुटद्विदलत् ।
उत्प्रेक्षते । उत्कण्ठार्तिभरादिव प्रियमिलनेच्छापीडाभरादिव । अन्योऽपि आर्तिभरता-
पितो विदीर्यत एव । किंभूतं चेतः । अद्य प्रियसङ्गमाय दयितस्य गुणैः आकृष्यमाणं
मया निरुध्यमानमपि नीयत एव । आद्यानि च तानि प्रियाणि च तेषां तैर्वा सङ्गमः
तस्यायः प्राप्तिः तस्मै तेन वा दयितः तस्य वा । आद्यप्रियसङ्गमे निमित्ते अयेन
शुभावहेन विधिना दयितस्य । अथवा आद्यप्रियसङ्गमायेति चतुर्थ्यन्तं भिन्नपदम् ।
एतदुक्तं भवति । हरिसंगमे पूर्वानुभूतस्मरणादिदं चेतो यास्यत्येव, न ते दूषणं न
मम । सोऽपि नोपालम्भमर्हति । विधेः पङ्मुखत्वात् । अथवा एवंविधमिदं चेत
एव यास्यति ज्ञास्यति इदमेव ज्ञातास्वादं निवृत्तिमेष्यतीत्युपरम्यते । अथाद्य पश्य । तद्गु-
गैराकृष्यमाणं सत् प्रियसङ्गमार्थं यास्यति ॥ अत्र शार्दूलविक्रीडितं वृत्तम् । काव्य लिङ्ग-
मलंकारः । उत्प्रेक्षोत्तरे च ॥ ६ ॥ तानेव दयितस्य सुरतसौशील्यादिकान्गुणान-
भावः । अथ
 
अपि च । आश्चर्यरम्यस्य प्रियस्य कृष्णस्य संगमाय मिलनायेदं मम चेतोऽन्तःकरणं यास्यति ।
कीदृशम् । दयितस्य कृष्णस्य गुणैः सौन्दर्यादिभिराकृष्यमाणं बलात्कारेणानीयमानम् ।
अपरमपि गुणै: रज्जुभिराकृष्यमाणमन्यत्र नीयत इति ध्वनितम् । कीदृशं चेतः ।
उत्कण्ठार्तिभरादिव स्फुटत् । उत्कण्ठा औत्सुक्यमार्ति: पीडा तयोर्योऽतिशयस्तस्मादिव
बहिर्भवत् । अपरमपि वस्त्वन्तरसंकुले स्थाने स्थितं वस्तु शङ्कया बहिर्भवतीति
ध्वनितम् । तथा च । अतःपरं विरहदुःखं सोढुमशक्ततया तद्गुणानेव स्मरन्त्या प्राणा
एव त्याज्यास्ततोऽन्ते या मतिः सा गतिरिति स्वयमेव चेतस्तत्र यास्यतीति किमतः परं
तवात्र गतागतायासेनेति
वक्तृ विशेषाद्बोद्धव्य विशेषाच्छठादि पदाच
ध्वनितोऽयमर्थः । हे दूति, यदि स नायातस्तदा त्वं किं दूयसे । तदनागमनं ममोत्तप्तये
युज्यते न तव । त्वं तु तत्सङ्गभोगेनैव कृतार्था जाता । सखीमपि सोत्कण्ठामाह ।
समीचीनं सख्यमाचरितमिति भावः । यदि च निर्दयकुचोपमर्दन गाढा लिङ्गना दिना
त्वद्गात्रपीडने दयारहितस्तदापि त्वं किं दूयसे । नायकस्य तादृशं दयाराहित्यं नायिकया
भाग्येन लभ्यत इति भावः । यदि च शठस्तदापि किं दूयसे । शठत्वेनैव मञ्चनं
कृतवता त्वमुपभुक्तेति शठतेति भावः । यदि च बहुवल्लभः स्वच्छन्दं रमते स तदापि ते किं
दूषणम् । किं च बह्वीषु वल्लभासु मध्ये संप्रति त्वमेका प्रिया जातेति भावः । पश्याद्येति ।
च भवादृशीनामुपभोगमात्रमुद्देश्यमिति तस्य बहुवल्लभत्वेऽपि न क्षतिः ।
मम तु प्रथमानुरागसमयमारभ्य प्रियेणान्या मनस्यपि न कृता । ममापि स्वप्नेऽपि
तदन्यो नेच्छाविषयोऽभूदधुना तु विधिवशाद्वैपरीत्ये प्राणानेव त्यक्ष्यामीति भावः ।
अत्र प्रथमपदे शठो नायक उक्तः । स्वच्छन्दमित्यादिना च धृष्टः । तदुभयलक्षणं
रसार्णवसुधाकरे—'अनुकूलस्यैकजाति: शठो गूढापराधकृत् । धृष्टो व्यक्तान्ययुव-
तथा
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri