This page has not been fully proofread.

गीतगोविन्दकाव्यम्
 
इह रसभणने कृतहरिगुणने मधुरिपुपदसेवके ।
 
कलियुगरचितं न वसतु दुरितं कविनृपजयदेवके । रमते० ॥८॥
नायातः सखि निर्दयो यदि शठस्त्वं दूति किं दूयसे
॥॥ स्वच्छन्दं बहुवल्लभः स रमते किं तत्र ते दूषणम् ।
 
१०८
 
[ सर्गः ७
 
धरसोदरे दुष्टे बलभद्रभ्रातरि कामपि आत्मसदृशं खलां सुदृशं लक्षणया विरूपनेत्रां
रमयति सति । अत्र हलधरशब्दो मामनुकूलां विहायान्यासक्तोऽन्यां रममाणस्य तस्य
पामरत्वं द्योतयति । ईदृशस्यास्य प्रतीक्षायां विदग्धया न स्थातव्यमिति भावः ॥ ७ ॥
अपि च । इहेति । कविराजजयदेव के कलियुगेन रचितं दुरितं न वसतु न तिष्ठतु ।
किंभूते । रसभणने रसोद्दीपके । कर्तरि ल्युः । पुनः किंभूते । कृतहरिगुणने कृतहरिक-
थाभ्यासे । पुनः किंभूते । मधुरिपुपदसेवके । अथ च इह रसभणने इति प्रबन्धवि-
शेषणत्वेन योजनीयम् । इयमष्टपदी स्तुति निन्दापरत्वेन बोद्धव्या ॥ तथा च सङ्गीतराजे
'द्रुतमण्ठेन तालेन द्रुतेनैव लयेन च । महारे रसराजे स्यात्पदानां संततेः पुनः । स्वरप्राम-
स्तथा पाटास्तेना अपि यथाक्रमम् । हरिरसमन्मथाद्यस्तिलकाख्यः प्रबन्धराट् ॥' इति
हरिरसमन्मथतिलकनामा पञ्चदशः प्रबन्धः ॥ कृष्णानागमने हेतुं दूर्ती विषादोपनय
पुरःसरं सोत्कण्ठा राधा प्रकटयति - नायात इति । हे सखि राधे, स मया बहु-
प्रेयस्यापि आहूतः परं निर्दय इति नायातः । अथ राधाह - हे दूति, स यदि शठः
धूर्तः तर्हि किं दूयसे । त्वं मा विषादं कार्षीः । त्वं दूतीकर्मण्येव प्रभुः । दूत्याह—हे
राधे, अहं अत एव दूये । स बहुवल्लभः सन् बहुपो वल्लभाः प्रेयस्यो यस्य सः स्व-
च्छन्दं यथा स्यात्तथा रमते क्रीडति । पुना राधा — तत्र ते किं दूषणं न हि त्वं
किं किमित्येवं संस्थितास्मीत्यर्थः । अत्र च हलधरसोदरत्वेन कृष्णस्योपादानम् । हलधरो
ग्राम्यस्तत्सोदरोऽयमपि तथैव भविष्यतीति तस्य मां विहाय कयाचिद्गोपिकया सह
केलिकरणमुचितमेवेति सूचनाय । 'विटप: पल्लवे षिने विस्तारे स्तम्बशाखयोः' इति विश्वः ।
अवसमिति 'वस निवासे' इत्यस्य धातोरुत्तमपुरुषैकवचनम् । लङ् । स्वाधीनभर्तृकेयं नायिका।
तदुक्तं शृङ्गारतिलके–'यस्या रतिगुणाकृष्टः पतिः पार्श्व न मुञ्चति । विचित्रविभ्रमासक्ता
स्वाधीनपतिका यथा' इति ॥ ७ ॥ इहैतत्काव्यकर्तेरि कविनृपजयदेवके कलियुगेन
चरितमाचरितं कृतं दुरितं न वसतु न तिष्ठतु । कीदृशम् । रसस्य कृष्णविषयशृङ्गाररसय
भणनं कथनं यस्य तादृशे । अत एव कृतं हरेर्गुणनं चिन्तनं येन तादृशे ।
अत्र हेतुमाह — मधुरिपोः कृष्णस्य पदसेवके ॥ ८ ॥ पूर्वमन्यस्याः कस्याश्चित्कृष्णेन सह
केलीमुत्प्रेक्ष्य सख्या अग्रे वर्णितवती । संप्रति दूत कृष्णेनोपभुक्तां शङ्कमाना वक्रोक्त्या दूत
प्राह – नायात इति । हे सखि दूति दूत्यकर्मकुशले, स निर्दयो दयारहितोऽत
एव शठः कृतगूढमदपराधो यदि नायातस्तदा किं दूयसे किमिति दुःखिता भवसि ।
स तु शठो न भवति । किं तु धृष्टः स्वच्छन्दमेव रमतेऽतः किं दूयसे इत्याह -
स्वच्छन्दमिति । स कृष्णो बहुवलभोऽनेकनायिका प्रियोऽत एव स्वच्छन्दं निःशङ्क
रमते । यया कयाचिद्गोपिकया सह केलिं करोति । तत्रायें ते तव किं दूषणम् ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri