This page has been fully proofread once and needs a second look.

११
 
शृणुष्व कारणं वासो येन च्छिन्नमनेकधा ।

इतोऽविदूरे वृन्ताकवाट्यां काचिज्जगौ मुदा ॥

 
फलविक्रयिणी गीतगोविन्दं मम वल्लभम् ।

तच्छ्रोतुमगमं चाहं वाट्यां सार्धं तथा पुनः ॥

 
इतस्ततो ह्यधावं तु ततो वृन्ताककण्टकैः ।

खण्डशः स्फुटितं वस्त्रं सत्यमेतन्न संशयः ॥

 
मा विषादं कुरुष्वात्र नैव दोषोऽस्ति कस्यचित् ।

इति श्रुत्वा वचः स्वप्ने भूपतिः स च पूजकः ॥

 
उत्थाय च ततो विप्रो राजसंनिधिमागतः ।

राजानमुक्तवान्सर्वं स्वप्ने यद्यदवैक्षत ॥

 
श्रुत्वा राजाथ तत्सर्वं सत्यमेतदिति ब्रुवन् ।

उवाच स्वप्ने यद्दृष्टं राजापि स्वयमेव हि ॥

 
परस्परं प्रशंसन्तौ शाकविक्रयिणीमुभौ ।

जयदेवकविं चैव राजा तु ब्राह्मणः स च ॥

 
अथ राजा तु तां शूद्रीं शाकविक्रयिणीं तदा ।

आनाय्य जीविकां दत्त्वा वसात्रैव पुरे सदा ॥

 
गायन्ती गीतगोविन्दं नित्यं श्रीपुरुषोत्तमम् ।

तोषयेति नृपस्त्वाज्ञां दत्त्वा संपूज्य केशवम् ॥

 
भुक्त्वा प्रसादं देवस्य जगाम भवनं निजम् ।

जयदेवं ततो राजा भक्तराजममन्यत ॥

 
मुहुस्तद्दर्शनाकाङ्क्षी कविवेश्म ययौ नृपः ।

एवं भक्तिवशः कृष्णः किं किं न कुरुते प्रभुः ॥

 
तस्मादद्यापि भक्तिर्हि नृणां सर्वार्थसाधिनी ।

अथापरं प्रवक्ष्यामि पद्मावत्या विचेष्टितम् ॥

 
जयदेवस्य चरितं महदाश्चर्यमुत्तमम् ।

एकदा तत्र नृपतेर्भ्राता कश्चित्सगोत्रजः ॥

 
ममार कालधर्मेण तत्पत्नी सुव्रता सती ।

अनुगन्तुं मनश्चक्रे निश्चितं पतिदेवता ॥

 
ततो राजा ददौ सर्वं संभार मौर्ध्व दैहिकम् ।

स्वयं तत्र गतो राजा पुरवासिजनैर्वृतः ॥

 
तस्मिन्नेव क्षणे राज्ञीं द्रष्टुं पद्मावती ययौ ।

राज्ञी प्रणम्य तां प्राह सतीं द्रष्टुं किमेषि भोः ॥

 
इति श्रुत्वा वचो राज्ञ्याः प्राह पद्मावती सती ।

अहो पाषण्ड इत्येष मृते पत्योयौ मनस्विनी ॥

 
एवं मर्तुमुपायं यत्प्रसाधयति सुव्रता ।

अहं तु मन्ये भो राशिज्ञि पत्युर्मरणसंश्रुतम् (?) ॥
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri