This page has not been fully proofread.

११
 
शृणुष्व कारणं वासो येन च्छिन्नमनेकधा ।
इतोऽविदूरे वृन्ताकवाट्यां काचिज्जगौ मुदा ॥
फलविऋयिणी गीतगोविन्दं मम वल्लभम् ।
तच्छ्रोतुमगमं चाहं वाट्यां सार्धं तथा पुनः ॥
इतस्ततो ह्यधावं तु ततो वृन्ताककण्टकैः ।
खण्डशः स्फुटितं वस्त्रं सत्यमेतन्न संशयः ॥
मा विषादं कुरुष्वात्र नैव दोषोऽस्ति कस्यचित् ।
इति श्रुत्वा वचः खप्ने भूपतिः स च पूजकः ॥
उत्थाय च ततो विप्रो राजसंनिधिमागतः ।
राजानमुक्तवान्सर्वं स्वप्ने यद्यदवैक्षत ॥
श्रुत्वा राजाथ तत्सर्वं सत्यमेतदिति ब्रुवन् ।
उवाच स्वप्ने यद्दृष्टं राजापि स्वयमेव हि ॥
परस्परं प्रशंसन्तौ शाकविक्रयिणीमुभौ ।
जयदेवकविं चैव राजा तु ब्राह्मणः स च ॥
अथ राजा तु तां शूद्र शाकविक्रयिणीं तदा ।
आनाय्य जीविकां दत्त्वा वसात्रैव पुरे सदा ॥
गायन्ती गीतगोविन्दं नित्यं श्रीपुरुषोत्तमम् ।
तोषयेति नृपस्त्वाज्ञां दत्त्वा संपूज्य केशवम् ॥
भुक्त्वा प्रसादं देवस्य जगाम भवनं निजम् ।
जयदेवं ततो राजा भक्तराजममन्यत ॥
मुहुस्तदर्शनाकाङ्क्षी कविवेश्म ययौ नृपः ।
एवं भक्तिवशः कृष्णः किं किं न कुरुते प्रभुः ॥
तस्मादद्यापि भक्तिर्हि नृणां सर्वार्थसाधिनी ।
अथापरं प्रवक्ष्यामि पद्मावत्या विचेष्टितम् ॥
जयदेवस्य चरितं महदाश्चर्यमुत्तमम् ।
एकदा तत्र नृपतेर्भ्राता कश्चित्सगोत्रजः ॥
ममार कालधर्मेण तरपत्नी सुव्रता सती ।
अनुगन्तुं मनश्चक्रे निश्चितं पतिदेवता ॥
ततो राजा ददौ सर्वं संभार मौर्ध्व दैहिकम् ।
स्वयं तत्र गतो राजा पुरवासिजनैर्वृतः ॥
तस्मिन्नेव क्षणे राज्ञीं द्रष्टुं पद्मावती ययौ ।
राज्ञी प्रणम्य तां प्राह सतीं द्रष्टुं किमेषि भोः ॥
इति श्रुत्वा वचो राज्याः प्राह पद्मावती सती ।
अहो पाषण्ड इत्येष मृते पत्यो मनस्विनी ॥
एवं मर्तुमुपायं यत्प्रसाधयति सुव्रता ।
अहं तु मन्ये भो राशि पत्युर्मरणसंश्रुतम् (?) ॥
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri