This page has not been fully proofread.

सर्गः ७] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
 
चरणकिसलये कमलानिलये नखमणिगणपूजिते ।
बहिरपवरणं यावकभरणं जनयति हृदि योजिते ॥ रमते० ॥ ६ ॥
रमयति सुदृशं कामपि सुभृशं खलहलधरसोदरे ।
 
किमफलमवसं चिरमिह विरसं वद सखि विटपोदरे ॥ रमते० ॥७॥
 
१०७
 
सने कामस्य हेमपीठे । किंभूतं रसनम् । तोरणहसनम् । रतिगृहं तोरणसदृश मिति
यावत् । किंभूते रतिगृहे । कृतवासने कृतं वासनं गन्धादि यस्य । गृहं च अधिवा-
सपरिकल्पितासनादि रमणीयं भवति । अत्र कनकशब्दः स्मरहरप्रियत्वेन कामस्योद्वे-
जको भवतीति ध्वन्यते ॥ ५ ॥ अपि च । चरणेति । हरिस्तस्याश्चरण किसलये याव-
कभरणं पूरणं जनयति । किंभूते । हृदि योजिते योगं प्रापिते । अर्थात् श्रीकृष्णस्य
हृदि । किंविशिष्टे चरणकिसलये । कमलानिलये लक्ष्मीनिवासस्थाने । पुनः किंभूते ।
नखा एव मणिगणाः आरक्तत्वात् । तैः पूजिते । किंभूतं यावकभरणम् । चरणस्य
स्वभावलोहितत्वाद्बहिर्भूतमाच्छादकम् । किंभूते हृदि । कमलानिलये लक्ष्मीनिवास-
स्थाने । पुनः किंभूते । नखमणिगणपूजिते । तया दत्तनखत्वात् ॥ ६ ॥ अपि च ।
रमयतीति । हे सखि, मौनं विसृज । विरसं यथा स्यात्तथा चिरमिह विटपोरे
निकुञ्जे फलप्राप्तिलक्षणरहितं चिरं किं अवसं किमुषितास्मि । क्व सति । खलहल-

 
स्थानं प्राप्तं तथापि नित्यं तत्सान्निध्यसूचनायैतदुक्तम् । 'अङ्गं प्रतीकोऽवयवोऽपघनोऽथ
कलेवरम्' इत्यमरः । 'सिंहासनं तद्धैमम्' इत्यपि । 'रसनं खादने पाने रसना
काञ्चिजिह्वयोः । रसनं चापि' इति विश्वः । 'मङ्गल्यस्रक्तोरणो नूनं भवेद्वन्दनमालिका' इति
क्षीरस्वामिलिखितकोषः । 'वासनं वसने चाथ स्थाने ज्ञाने च धूपने' इति विश्वः ॥ ५ ॥
किंच । चरणकिसलये चरण एव किसलयमाताम्रत्वात्कोमलत्वाच्च । तत्र यावकभरणं
जनयति । कीदृशे । कमलायाः श्रियो निलय आश्रये । कीदृशे । नखा एव मणिगणा
मणिसमूहास्तैः पूजितेऽलंकृते । कीदृशं यावकभरणम् । बहिर्भूतं दूरीभूतमपवरणं यस्य
तादृशम् । स्पष्टमित्यर्थः । पुनः कीदृशे । हृदि हृदये योजिते । अनुरागातिशयात्प्रापितं
स्वहृदये तच्चरणकिसलयं कृत्वा यावकं च रचयतीत्यर्थः । यद्वा । हृदि तस्यैव विशेषणम् ।
कीदृशे हृदि । कमलाया लक्ष्म्या निलये आश्रये । लक्ष्म्याः कृष्णवक्षस्येव सर्वदा स्थितिः ।
पुनः कीदृशे । नखा एव मणिगणास्तैर्भूषिते । लक्ष्म्या अपि गृहे तदीयचरणकिसलयं ददाति ।
तेन तस्य सौभाग्यातिशयो ध्वनितः । अत्र चरणकिसलये नखमणिगण इत्यत्र रूप्यमाणयोः
किसलयत्वमणिगणत्वयोः परस्परमयोगादयुक्तं नामरूपकम् । तदुक्तं दण्डिना — 'इदं
मन्दस्मितं ज्योत्स्ना स्निग्धनेत्रोत्पलं मुखम् । इति ज्योत्स्नोत्पलायोगादयुक्तं नाम रूपकम्' इति ।
'कमलापीवरयोः' इति विश्वः । 'लाक्षा राक्षा जतु कीबे यावकालक्तकामयाः' इति
विश्वः ॥ ६ ॥ रमयतीति । एवं स्वयमेव तत्तदाभरणं विधाय कामपि सुदृशं
शोभने दृशौ नेत्रे यस्यास्ताम् । खलो दुर्जनो यो हलधरो बलभद्रस्तस्य सोदरो भ्राता
कृष्णस्तस्मिन्सुभृशमतिशयेन रमयति । हे सखि, वद कथय । इह विटपोदरे कुजमध्ये
विरसं रसशून्यं यथा स्यादेवमत एवाफलं यथा स्यादेवं चिरं बहुकालं व्याप्य
 

 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri