This page has been fully proofread once and needs a second look.

गीतगोविन्दकाव्यम्
 
रतिगृहजघने विपुलापघने मनसिजकनकासने ।
 

मणिमयरसनं तोरणहसनं विकिरति कृतवासने ॥ रमते ॥ ५ ॥
 
[ सर्गः ७
 

 
कराब्जपत्रे । शोणे करतले नीलमरकतसंचयः सभ्रमरपद्मशोभामनुकरोति । तेन

तयोः यावकमण्डनकमनीयतान्यायेन औपाधिकस्नेहो रसाभासत्वेन व्यञ्जितः । मर-

कतवलयं मधुकरनिचयमेव वितरति प्रयच्छति । किंभूते करतले । हिमशीतले । अत्र

हिमशीतलशब्दस्तस्मिन्कामाभावं द्योतयति । तथा चाह — '-- "अनुरागोऽनुरक्तायां

रसावह इति स्थितिः । अभावे त्वनुरागस्य रसाभासं जगुर्बुधाः" ॥ ४ ॥ अपि च ।

<pratika>
रतीति ।</pratika> स तस्या रतिगृहजघने मणिमयरसनं मेखलं विकिरति । रतिगृहं च तज्ज-

घनं च । जघनस्य रतिगृहेति नाम्नि सत्येव रतिं गृह्णाति । रतेरावासप्रस्थापितत्वेन

विशेषणपरता । किंभूते । विपुलापघने विपुलावयवे । पुनः किंभूते । मनसिजकनका-

 
निजमार्दवेन शैत्येन चाभिभूतं बिसशकलं मृणालखण्डं येन तादृशे । पुनः कीदृशे ।

करतलमेव नलिनीदलं पद्मं यत्र तादृशे । यद्वा । करतलमेव नलिनीदलं पद्मिनीपत्रं यत्र

तादृशे । पुनः कीदृशे । हिमवच्छीतले । अत्र यद्यपि करतलस्य पद्मिनी पत्रत्वरूपणं न

विरुद्ध मिति द्वितीयव्याख्याने मरकतवलयस्य पद्मरूपणमाचक्षोपलभ्यमित्येकदेश-

विवर्तिरूपकम् । तदुक्तं काव्यप्रकाशे – '-- "श्रौता आर्थाश्च ते यस्मिन्नेकदेशविवतिं तत् ।'
र्ति तत् ।"
अस्यार्थः -- केचन पदार्थाः श्रौताः श्रुतिपठिताः साक्षाच्छब्दाः केचन आर्थी-
था-
स्तदन्यार्थानुपपत्तिगम्या यत्र रूपके तदेकदेशविवर्तीति । '"नलिनी पद्मिनी पद्म-

व्योमसिन्धुसरोवरे'" इति विश्वः । '"मरकतो नीलमणिः'" इति ॥ ४ ॥ किंच ।

<pratika>
रतिगृहेति । </pratika>रतेः शृङ्गारस्य गृहे आश्रये मणिमयरसनं मुक्तामयीं मेखलां विकिरति

क्षिपति । अत्र विकिरतीत्यनेन काञ्चीबन्धनसमये श्रोणीस्पर्शजनितसाध्वसवशात्कम्प्य-

मानकर:रः क्षिपति न तु बध्नातीति ध्वनितम् । कीदृशे । विपुलापघने विपुलो विस्ती-

र्णोऽपघनोऽवयवो यस्य तादृशे । अतिमांसल इत्यर्थः । पुनः कीदृशे । मनसिजस्य

कामस्य कनकनिर्मितसिंहासन इव । विस्तीर्णत्वादतिगौरत्वाच्च जघन कन-

कासनसाम्यम् । अत्र जघनस्य कनकासनत्वरूपणमनुपठ्यमानमनसिजस्य महा-

राजत्व माजीवतीत्येक देश विवर्ति रत्यादिरूपकमिति कीदृशं मणिमयरसनम् ।
 

तोरणस्य मङ्गलस्य स्रजो हसनमुपहासो यस्मात्तादृशम् । अन्योऽपि यदि सिंहासन

उपविशति तदा तत्र परिजनैर्वन्दनमालिका बध्यते । मनसिजसिंहासनीभूते तस्या जघने

क्षुद्रमणिका रूपमाङ्गल्यस्रजं बध्नातीति भावः । पुनः कीदृशे जघने । कृतं वासनं वस्त्रं

समाहृत्यापि काञ्चीं बध्नति कृष्णेऽतिलज्जया नायिकया कृतं शाटिकादिरूपं वस्त्रं यत्रेत्यर्थः ।

यद्वा । कृतं वासनं श्रीकृष्णवशीकरणाय धूपविशेषो यत्र तादृशे । अत एव तया वशीकृतः

सन् मामवधूय तथाया सह रमत इति भावः । धूपविशेषश्च स्वदेहे नायकवशीकरणाय

च नायिकया कर्तव्य इति कामशास्त्रे उक्तम् । तदुक्तं रतिरहस्ये – '-- "वरयुवती.
-
मलयोद्भवसूक्ष्मैलासर्जकृष्टसिद्धार्थैः । सर्वाङ्गीणो धूपः सर्वजनानां वशीकरणम् ॥"

इति । यद्वा । कृता तत्कान्तिदर्शनात्कृष्णेन वासना भोगेच्छा यत्र तादृशे । यद्वा ।

कृतं वासनमर्थात्कामेन स्थानं यत्र तादृशे । यद्यपि मनसिजकनकासन इत्यनेनैव काम-
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri
 
-