This page has been fully proofread once and needs a second look.

सर्गः ७] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
 
घटयति सुघने कुचयुगगगने मृगमदरुचिरूषिते ।

मणिसरममलं तारकपटलं नखपदशशिभूषिते ॥ रमते० ॥ ३ ॥

 
जितबिसशकले मृदुभुजयुगले करतलनलिनीदले ।

मरकतवलयं मधुकरनिचयं वितैत[^१]रति हिमशीतले ॥ रमते० ॥ ४ ॥
 

 
मानां वा वातारिवृक्षाणामग्रभागा यस्मिन् । रमणीपक्षे कुलटानां सुखरूपम् । यथा मृगः

कानने बली तथात्र कामः । अत्र मृगशब्देन तत्र रममाणस्य हरेः परुषत्वं (पशुलंत्वं)

व्यज्यते ॥२॥ अपि च । <pratika>घटयतीति । </pratika>स तस्याः कुचयुगगगने कुचयुगं गगनमिव बृह-

त्त्वात् । अमलमणिहारं हीरकसरं हीरकहारं तारकपटलं तारकासमूहं घटयति योजयति ।

किंभूते । सुघने, सुतरां घने पीने । गगनपक्षे शोभनघने । किंभूते स्तनयुगे । मृगम-

दरुचिरूषिते । कस्तूरीपरिष्वङ्गेन निवारितसुरतश्रमजले । गगनपक्षे मृगमदकान्तियुक्ते

रूक्षे च भावेन । पुनः कथंभूते । नखपदं शशीव तेन भूषिते । पक्षे । नखपदमिव शशी

तेन भूषिते । अत्र तस्मिन्नभिलाषशून्यत्वं गगनपदव्यङ्ग्यम् ॥३॥ अपि च । <pratika>जितेति ।
</pratika>
स कृष्णस्तस्या जितबिसशकले मृणालखण्डसदृशे भुजयुगले वर्तमाने । करतलनलिनीदले
 

 

 

 
येन तादृशे । कीदृशं कुसुमम् । चपला इव रक्तविद्युदिव सुषमातिशयिता शोभा यस्य

तादृशम् । यद्वा । चपलावत्सुषमं चारु । अत्र विरहतापशामकतयातिश्यामलतया

चिकुराणां सजलमेघसाम्यम् । केशग्रथित कुरबककुसुमानां चान्तरान्तरा दृश्यमानता
तया
विरहिणां संतापजनकतया रक्ततया लोहितविद्युत्साम्यम् । '"चिकुरः कुन्तलो वाल:लः कचः

केशः शिरोरुहः'" इत्यमरः । '"स्मृतः कुरबकः शोणाग्म्लानझिण्टीप्रभेदयोः'" इति विश्वः।
'

"
कुसुमं पुष्पफलयोः'" इत्यपि । '"चपला कपिला विद्युत्पुंश्चलीपिप्पलीषु च'" इत्यपि ।
'

"
सुषमं चारुसमयोः सुषमा परमा धुद्युतौ'" इति च ॥ २ ॥ केल्यन्तरमाह - - <pratika>घटयतीति ।
</pratika>
कुचयुगं गगनमिव । कीदृशे कुचयुगगगने । सुष्ठु अतिशयेन घनो विस्तारो यत्र तादृशे

मृगमदस्य कस्तूर्या रुच्या दीघ्प्त्या रूषिते व्याप्ते । पुनः कीदृशे । नखपदं नखाकस्त ङ्कस्तदेव

शशी तेन भूषितेऽलंकृते । नखक्षतं चेदर्धेन्दुसाम्यं बोध्यम् । तदुक्तं पञ्चसायके -
'
-
"
अर्धेन्दुसंकाशमिदं नखक्षतमर्धेन्दुसंज्ञं कथितं समासतः । कक्षानितम्बस्तनपार्श्व मध्ये

दातव्यमेतत्करजं सदैव'" इति । अत एवात्र शशिपदमप्यर्धचन्द्रपरं बोध्यम् । पूर्णचन्द्रस्य

तत्साम्याभावात् । अत्र कुचयुगस्य विस्तीर्णत्वात्कस्तूरिकया श्यामत्वाङ्करूपचन्द्रवत्त्वा
-
द्गनत्वेन निरूपणम् । गगनस्यापि कविसंप्रदाये श्यामत्वेनैव प्रसिद्धेः । अत एव सुघन

इत्यादिभिस्त्रिभिर्विशेषणैर्गगत्वनिरूपणौ पयिक विशेषणोपादानात्साङ्गमेतद्रूपकम् । 'धन:
"घनः
सान्द्रे दृढे दीर्घे विस्तारे लोहमुद्गरे'" इति विश्व: । 'वः । "गुण्ठितरूषिते'" इत्यमरः । एतब्द्व्या-

ख्यानसमये क्षीरस्वामिनाप्युक्तम् – '-- "रूषिते लौकिकव्यावृत्त्येत्यर्थः ।' '" "यत्रान्तर्गिरिरेणु-

रूषितः ॥' '" "नक्षत्रे चापि मध्ये च तारकं तारकापि च'" इति विश्वः ॥ ३ ॥ किंच ।

<pratika>
जितबिसेति ।</pratika> मृदुभुजयुगले तस्याः कोमले बाहुयुगे मरकतवलयमिन्द्रनीलमणिकङ्कणं

तमेव मधुकरनिचयं भ्रमरसमूहं विकिरति अर्पयति । कीदृशे भुजयुगले । जितं

 
[^
'.] "विकिरति'" इति पाठः ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri