2022-10-18 04:14:13 by ambuda-bot
This page has not been fully proofread.
सर्गः ७] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
घटयति सुघने कुचयुगगगने मृगमदरुचिरूषिते ।
मणिसरममलं तारकपटलं नखपदशशिभूषिते ॥ रमते० ॥ ३ ॥
जितबिसशकले मृदुभुजयुगले करतलनलिनीदले ।
मरकतवलयं मधुकरनिचयं वितैरति हिमशीतले ॥ रमते० ॥ ४ ॥
मानां वा वातारिवृक्षाणामग्रभागा यस्मिन् । रमणीपक्षे कुलटानां सुखरूपम् । यथा मृगः
कानने बली तथात्र कामः । अत्र मृगशब्देन तत्र रममाणस्य हरेः परुषत्वं (पशुलं)
व्यज्यते ॥२॥ अपि च । घटयतीति । स तस्याः कुचयुगगगने कुचयुगं गगनमिव बृह-
त्त्वात् । अमलमणिहारं हीरकसरं हीरकहारं तारकपटलं तारकासमूहं घटयति योजयति ।
किंभूते । सुघने, सुतरां घने पीने । गगनपक्षे शोभनघने । किंभूते स्तनयुगे । मृगम-
दरुचिरूषिते । कस्तूरीपरिष्वङ्गेन निवारितसुरतश्रमजले । गगनपक्षे मृगमदकान्तियुक्ते
रूक्षे च भावेन । पुनः कथंभूते । नखपदं शशीव तेन भूषिते । पक्षे । नखपदमिव शशी
तेन भूषिते । अत्र तस्मिन्नभिलाषशून्यत्वं गगनपदव्यङ्ग्यम् ॥३॥ अपि च । जितेति ।
स कृष्णस्तस्या जितबिसशकले मृणालखण्डसदृशे भुजयुगले वर्तमाने । करतलनलिनीदले
।
।
येन तादृशे । कीदृशं कुसुमम् । चपला इव रक्तविद्युदिव सुषमातिशयिता शोभा यस्य
तादृशम् । यद्वा । चपलावत्सुषमं चारु । अत्र विरहतापशामकतयातिश्यामलतया
चिकुराणां सजलमेघसाम्यम् । केशग्रथित कुरबककुसुमानां चान्तरान्तरा दृश्यमानता
विरहिणां संतापजनकतया रक्ततया लोहितविद्युत्साम्यम् । 'चिकुरः कुन्तलो वाल: कचः
केशः शिरोरुहः' इत्यमरः । 'स्मृतः कुरबकः शोणाग्लानझिण्टीप्रभेदयोः' इति विश्वः।
'कुसुमं पुष्पफलयोः' इत्यपि । 'चपला कपिला विद्युत्पुंश्चलीपिप्पलीषु च' इत्यपि ।
'सुषमं चारुसमयोः सुषमा परमा धुतौ' इति च ॥ २ ॥ केल्यन्तरमाह - घटयतीति ।
कुचयुगं गगनमिव । कीदृशे कुचयुगगगने । सुष्ठु अतिशयेन घनो विस्तारो यत्र तादृशे
मृगमदस्य कस्तूर्या रुच्या दीघ्या रूषिते व्याप्ते । पुनः कीदृशे । नखपदं नखाकस्त देव
शशी तेन भूषितेऽलंकृते । नखक्षतं चेदर्धेन्दुसाम्यं बोध्यम् । तदुक्तं पञ्चसायके-
'अर्धेन्दुसंकाशमिदं नखक्षतमर्धेन्दुसंज्ञं कथितं समासतः । कक्षानितम्बस्तनपार्श्व मध्ये
दातव्यमेतत्करजं सदैव' इति । अत एवात्र शशिपदमप्यर्धचन्द्रपरं बोध्यम् । पूर्णचन्द्रस्य
तत्साम्याभावात् । अत्र कुचयुगस्य विस्तीर्णत्वात्कस्तूरिकया इयामत्वाङ्करूपचन्द्रवत्वा •
द्वगनत्वेन निरूपणम् । गगनस्यापि कविसंप्रदाये इयामत्वेनैव प्रसिद्धेः । अत एव सुघन
इत्यादिभिस्त्रिभिर्विशेषणैर्गग न त्वनिरूपणौ पयिक विशेषणोपादानात्साङ्गमेतद्रूपकम् । 'धन:
सान्द्रे दृढे दीर्घे विस्तारे लोहमुद्गरे' इति विश्व: । 'गुण्ठितरूषिते' इत्यमरः । एतब्या-
ख्यानसमये क्षीरस्वामिनाप्युक्तम् – 'रूषिते लौकिकव्यावृत्त्येत्यर्थः ।' 'यत्रान्तर्गिरिरेणु-
रूषितः ॥' 'नक्षत्रे चापि मध्ये च तारकं तारकापि च' इति विश्वः ॥ ३ ॥ किंच ।
जितबिसेति । मृदुभुजयुगले तस्याः कोमले बाहुयुगे मरकतवलयमिन्द्रनीलमणिकङ्कणं
तमेव मधुकरनिचयं भ्रमरसमूहं विकिरति अर्पयति । कीदृशे भुजयुगले । जितं
१ 'विकिरति' इति पाठः ।
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri