This page has been fully proofread once and needs a second look.

गीतगोविन्दकाव्यम्
 
[ सर्गः ७
 
<bold>गुर्जरीरागैकतालीतालेन गीयते । प्र० ॥ १५ ॥
</bold>
 
समुदितमदने रमणीवद्ने चुम्बनवलिताधरे ।

मृगमदतिलकं लिखति सपुलकं मृगमिव रजनीकरे ॥ १ ॥

 
रमते यमुनापुलिनवने विजयी मुरारिरघुधुना ॥ ध्रुवम् ॥

घनचयरुचिरे रचयति चिकुरे तरलिततरुणानने ।

कुरबककुसुमं चपलासुषमं रतिपतिमृगकानने ॥ रमते० ॥ २ ॥
 
१०४
 
तस्या
 

 
इति भावः । द्रुतविलम्बितं वृत्तम् ॥ ५ ॥ इदानीं राधा विह्वलिते मनसि तत्स्वरूप-

मेव निरूपयति ॥ अत्र पूर्वं ध्रुवपदम् ॥ <pratika>रमत इति । </pratika>अधुना मुरारिर्यमुनापुलिन-

वने रमते । अत्र मुरारिपदं कामुकस्य कार्कश्येन रत्यभावं द्योतयति । किंभूतः ।

विजयी मां पराभूय जयवान् । इति ध्रुवः । अथ पद्यानि । तमेव रमणप्रकारमाह -
-
<pratika>
समुदितेति । </pratika>रमणीवदने मृगमदतिलकं कस्तूरीतिलकं लिखति । रमतेऽस्यामिति

रमणी । लिखिरत्र लेखनसामान्याद्विन्यासे वर्तते । किंभूते वदने । अत एव सम्य-

गुदितः कामो यतः । पुनः किंभूते । सतिलकं मुखमुद्वीक्ष्य दीप्तस्मरत्वात्सपुलकं यथा

भवति तथा चुम्बनाद्वलितः संभक्तोऽधरो यत्र । कस्मिन्क इव । रजनीकरे मृग इव ।

पूर्णचन्द्रनिभे मुखे कस्तूरी तिलकेन राधानिःश्वासैककाश्मल्यं द्योत्यते । अत्र रजनी-

करग्रहणेन तयोः क्षणरागित्वं द्योत्यते ॥१॥ अपि च । <pratika>घनचयेति ।
</pratika>
प्रकरणलभ्यौ । चिकुरे कुन्तले । जातावेकवचनम् । कुरबककुसुमं शोणसैरेयकपुष्पम्

शोणाम्लानपुष्पं वा रचयति । किंभूते । रतिपतिः मृग इव तस्य कानने । किंभूते

चिकुरे । घनचयरुचिरे मेघपटलमनोहरे । पुनः किंभूते । तरलिततरुणानने ।

तरलितानि तरुणानामाननानि येन । काननपक्षे तरलितानि तरुणानां कुरबककुसु-

 
पूर्वं गीतेन कस्याश्चिद्विपरीतरतमुक्तमधुना कस्याश्चित्स्वाधीनभर्तृकाया नायककर्तृकां

क्रीडामाह -- <pratika>समुदितेति ।</pratika> गुर्जरीरागेऽस्यैकतालः । गीतार्थस्तु -- विजयी जयशीलो

मुरारिर्यमुनापुलिने वने यमुनायाः सैकते यद्वनं तत्र रमते क्रीडति । निःशङ्ककेलिप्रति-

पादनाय <error>विजयीत्युक्तं ।</error><fix>विजयीत्युक्तम्</fix> क्रीडामेवाह -- <pratika>समुदितेति ।</pratika> रमणीवदने कामिनीमुखे सपुलकं

सरोमाञ्चं यथा स्यादेवं मृगमदतिलकं कस्तूरीतिलकं लिखति । कीदृशे । चुम्बनाय

वलितः संमुखीकृत्य संकोचितोऽधरो यत्र तादृशे । कुत्र कमिव । रजनीकरे चन्द्रे

मृगमिव । कीदृशे चन्द्रे । समुदितः सम्यगुदितो मदनो यस्मात्तादृशे । पूर्णचन्द्रस्य

कामोद्दीपकत्वादिति भावः । पुनः कीदृशे चन्द्रे । चुम्बनाय वलितः संमुखीकृतोऽधरो

यस्मात्तादृशे । चन्द्रदर्शनाचूद्यूनोश्चुम्बनादौ प्रवृत्तिः । अत्र मुखस्याह्लादकारित्वादिना

चन्द्रसाम्यं कस्तूरीतिलकस्य च मृगसाम्यं बोध्यम् ॥ १ ॥ केल्यन्तरमाह - - <pratika>घनचयेति ।
</pratika>
चिकुरे तस्याः केशपाशे क़ुकुरबककुसुमं शोणाम्लानपुष्पं, अरुणझिण्टीपुष्पं वा रचयति ।

यथाविन्यासमर्पयतीत्यर्थः । कीदृशे चिकुरे । घनचयवन्मेघसमूहवद्रुचिरे मनोहरे

पुनः कीदृशे । रतिपतिः कामः स एव मृगस्तस्य कानने वने । पुनः

कीदृशे । तरलितानि विलोकनेन चञ्चलीकृतानि तरुणानां यूनामाननानि मुखानि
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri