This page has not been fully proofread.

गीतगोविन्दकाव्यम्
 
[ सर्गः ७
 
गुर्जरीरागैकतालीतालेन गीयते । प्र० ॥ १५ ॥
समुदितमदने रमणीवद्ने चुम्बनवलिताधरे ।
मृगमदतिलकं लिखति सपुलकं मृगमिव रजनीकरे ॥ १ ॥
रमते यमुनापुलिनवने विजयी मुरारिरघुना ॥ ध्रुवम् ॥
घनचयरुचिरे रचयति चिकुरे तरलिततरुणानने ।
कुरबककुसुमं चपलासुषमं रतिपतिमृगकानने ॥ रमते० ॥ २ ॥
 
१०४
 
तस्या
 
इति भावः । द्रुतविलम्बितं वृत्तम् ॥ ५ ॥ इदानीं राधा विह्वलिते मनसि तत्स्वरूप-
मेव निरूपयति ॥ अत्र पूर्व ध्रुवपदम् ॥ रमत इति । अधुना मुरारिर्यमुनापुलिन-
वने रमते । अत्र मुरारिपदं कामुकस्य कार्कश्येन रत्यभावं द्योतयति । किंभूतः ।
विजयी मां पराभूय जयवान् । इति ध्रुवः । अथ पद्यानि । तमेव रमणप्रकारमाह-
समुदितेति । रमणीवदने मृगमदतिलकं कस्तूरीतिलकं लिखति । रमतेऽस्यामिति
रमणी । लिखिरत्र लेखनसामान्याद्विन्यासे वर्तते । किंभूते वदने । अत एव सम्य-
गुदितः कामो यतः । पुनः किंभूते । सतिलकं मुखमुद्वीक्ष्य दीप्तस्मरत्वात्सपुलकं यथा
भवति तथा चुम्बनाद्वलितः संभक्तोऽधरो यत्र । कस्मिन्क इव । रजनीकरे मृग इव ।
पूर्णचन्द्रनिभे मुखे कस्तूरी तिलकेन राधानिःश्वासैककाइमल्यं द्योत्यते । अत्र रजनी-
करग्रहणेन तयोः क्षणरागित्वं द्योत्यते ॥१॥ अपि च । घनचयेति ।
प्रकरणलभ्यौ । चिकुरे कुन्तले । जातावेकवचनम् । कुरबककुसुमं शोणसैरेयकपुष्पम्
शोणाम्लानपुष्पं वा रचयति । किंभूते । रतिपतिः मृग इव तस्य कानने । किंभूते
चिकुरे । घनचयरुचिरे मेघपटलमनोहरे । पुनः किंभूते । तरलिततरुणानने ।
तरलितानि तरुणानामाननानि येन । काननपक्षे तरलितानि तरुणानां कुरबककुसु-
पूर्वं गीतेन कस्याश्चिद्विपरीतरतमुक्तमधुना कस्याश्चित्स्वाधीनभर्तृकाया नायककर्तृकां
क्रीडामाह — समुदितेति । गुर्जरीरागेऽस्यैकतालः । गीतार्थस्तु – विजयी जयशीलो
मुरारिर्यमुनापुलिने वने यमुनायाः सैकते यद्वनं तत्र रमते क्रीडति । निःशङ्ककेलिप्रति-
पादनाय विजयीत्युक्तं । क्रीडामेवाह —समुदितेति । रमणीवदने कामिनीमुखे सपुलकं
सरोमाञ्चं यथा स्यादेवं मृगमदतिलकं कस्तूरीतिलकं लिखति । कीदृशे । चुम्बनाय
वलितः संमुखीकृत्य संकोचितोऽधरो यत्र तादृशे । कुत्र कमिव । रजनीकरे चन्द्रे
मृगमिव । कीदृशे चन्द्रे । समुदितः सम्यगुदितो मदनो यस्मात्तादृशे । पूर्णचन्द्रस्य
कामोद्दीपकत्वादिति भावः । पुनः कीदृशे चन्द्रे । चुम्बनाय वलितः संमुखीकृतोऽधरो
यस्मात्तादृशे । चन्द्रदर्शनाचूनोश्चुम्बनादौ प्रवृत्तिः । अत्र मुखस्याह्लादकारित्वादिना
चन्द्रसाम्यं कस्तूरीतिलकस्य च मृगसाम्यं बोध्यम् ॥ १ ॥ केल्यन्तरमाह - घनचयेति ।
चिकुरे तस्याः केशपाशे क़ुरबककुसुमं शोणाम्लानपुष्पं, अरुणझिण्टीपुष्पं वा रचयति ।
यथाविन्यासमर्पयतीत्यर्थः । कीदृशे चिकुरे । घनचयवन्मेघसमूहवद्रुचिरे मनोहरे
पुनः कीदृशे । रतिपतिः कामः स एव मृगस्तस्य कानने वने । पुनः
कीदृशे । तरलितानि विलोकनेन चञ्चलीकृतानि तरुणानां यूनामाननानि मुखानि
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri