This page has been fully proofread once and needs a second look.

सर्गः ७ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् १०३
 
श्रीजयदेवभणितहरिरमितम् ।
 

कलिकलुषं जनयतु परिशमितम् ॥ कापि ० ॥ ८ ॥

 
विरहपाण्डुमुरारिमुखाम्बुजद्युतिरयं तिरयन्नपि वेदनाम् ।

विधुरतीव तनोति मनोभुवः सुहृदये हृदये मदनव्यथाम् ॥ ५ ॥
 

 
रतिरणः तत्र धीरा स्थिरा ॥ ७ ॥ <pratika>श्रीति ।</pratika> इदं श्रीजयदेवभणितं विपरीतरताभि-

( योग - ) - क्रीडितं कलिकलुषं परिशमितं जनयत्विति शान्तितिं नयतु "
तथात्र सङ्गी-

तराजे '"श्रीरागो यत्र रागः स्यात्तालस्तु द्रुतमण्ठकः । वर्णनं वासुदेवस्य रतिस्तद्व्यत्यये

स्त्रियाः । पदेभ्यः पाटसन्तानं स्वरास्तेनास्तथैव च । प्रयोगश्च भवेद्यत्र स प्रबन्धवरः

स्मृतः ॥ हरिरमितचम्पकवर्णेभ्यः शेखराभिधः'" इति । हरिरमित चम्पक शेखरनामा

चतुर्दशः प्रबन्धः ॥ ८ ॥ इदानीं विरहातुरा राधा चन्द्रमुद्दिश्याह - - <pratika>विरहेति ।</pratika> अये

कोमलामन्त्रणे । हे सखि, अयं विधुः हृदये अर्थात् मम अतिमदनव्यथां तनोति ।

किंभूतः । मनोभुवः मदनस्य सुहृन्मित्रम् । मुरारेर्विरहावस्थास्मरणेनाह । किंभूतः ।

विरहेण पाण्डु यन्मुरारिमुखाम्बुजं तस्य द्युतिरिव द्युतिर्यस्य । अत एव वेदनां तिर-

यन्नपि आच्छादयन्नपि । एतदुक्तं भवति । पूर्वं मदीय विरहपाण्डुमुरारिमुखकान्ति-

मत्त्वेन मम वेदनां नाशयन्नपि कामसुहृत्त्वेन वेदनां करोत्येव । तदप्राप्त्यापि मदपे-

क्षया तस्य स्थितत्वाद्दुःखं नाभूत्, सांप्रतमन्यासक्तं तं ज्ञालात्वा मया स्थातुं न शक्यत
 
तथा च
 

 
हंसलीलकः'" इति । '"लवलेशकणाणवः'" इत्यमरः ॥ ७ ॥ <pratika>श्रीजयदेवेति ।</pratika> श्रीजयदेवेन

भणितं यद्धरे:रेः कृष्णस्य रतिरमितं क्रीडितं कलेः कलियुगस्य कलुषं पापमर्थाच्छ्रोतॄणां

पाठकानां च परिशमितं जनयतु नष्टं करोतु ॥ ८ ॥ संप्रति चन्द्रोऽप्ययमधिकतरं

व्यथयतीत्याह -- <pratika>विरहेति ।</pratika> अये इति विषादे । अयं दृश्यमानश्चन्द्रो मम हृदये

मदनव्यथां कामपीडां तावदधिकं यथा स्यादेवं तनोति विस्तारयति । कीदृशः ।

विरहेण मद्विश्लेषेण पाण्डु धूसरं यन्मुर।रारेः कृष्णस्य मुखाम्बुजमाननपद्मं तद्वद्द्युतिर्यस्य सः।

तथा च
। तादृशकृष्णमुखाम्बुजसदृशचन्द्रदर्शने कृष्णमुखाम्बुजस्य स्मरणादतिव्यथा

जायत इति भावः । किं कुर्वन् । वेदनामपि तिरयंस्तिरोहितां कुर्वन् । तथा च ।

चन्द्रदर्शनेन तथा विवेकोन्मूलनं भवति यथा कृष्णमुपायेन कृतापराधमपि तमेव मनः

स्मरतीति भावः । व्यथाजनकत्वे हेतुमाह - - <pratika>मनोभुव इति ।</pratika> मनोभुवः कामस्य सुहृन्मित्रम् ।

तथा च निकटस्थितस्यापि कृष्णस्यानुसरणं मया न कृतमिति मदनाशाज्ञालङ्घनात्कामो

मे वैरी जात:तः । सख्युस्तस्य साहाय्यं चिकीर्षता चन्द्रेणापि व्यथा जन्यत इति भावः ।

चन्द्रस्य कृष्णमनोजन्यत्वेन कामस्य मनसिजत्वेन प्रसिद्धेः । सोदरत्वेन कामचन्द्रयोः

सौहार्दाच्च मनोभवपदेन कामस्योपादानन् । तथा च श्रुतिः '"चन्द्रमा मनसो

जातश्चक्षोः सूर्यो अजायत ।'" इति । '"वेदना ज्ञानदुःखयोः । भये क्रोधे विषादे

च संभ्रमे स्मरणेऽपि च'" इति विश्वः । '"तिरोऽन्तधैँ तिर्थर्धौ तिर्यगर्थे'" इति च ॥ ५ ॥
 

 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri