This page has not been fully proofread.

सर्गः ७ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् १०३
 
श्रीजयदेवभणितहरिरमितम् ।
 
कलिकलुषं जनयतु परिशमितम् ॥ कापि ० ॥ ८ ॥
विरहपाण्डुमुरारिमुखाम्बुजद्युतिरयं तिरयन्नपि वेदनाम् ।
विधुरतीव तनोति मनोभुवः सुहृदये हृदये मदनव्यथाम् ॥ ५ ॥
 
रतिरणः तत्र धीरा स्थिरा ॥ ७ ॥ श्रीति । इदं श्रीजयदेवभणितं विपरीतरताभि-
( योग - ) - क्रीडितं कलिकलुषं परिशमितं जनयत्विति शान्ति नयतु "
तथात्र सङ्गी-
तराजे 'श्रीरागो यत्र रागः स्यात्तालस्तु द्रुतमण्ठकः । वर्णनं वासुदेवस्य रतिस्तव्यत्यये
स्त्रियाः । पदेभ्यः पाटसन्तानं स्वरास्तेनास्तथैव च । प्रयोगश्च भवेद्यत्र स प्रबन्धवरः
स्मृतः ॥ हरिरमितचम्पकवर्णेभ्यः शेखराभिधः' इति । हरिरमित चम्पक शेखरनामा
चतुर्दशः प्रबन्धः ॥ ८ ॥ इदानीं विरहातुरा राधा चन्द्रमुद्दिश्याह - विरहेति । अये
कोमलामन्त्रणे । हे सखि, अयं विधुः हृदये अर्थात् मम अतिमदनव्यथां तनोति ।
किंभूतः । मनोभुवः मदनस्य सुहृन्मित्रम् । मुरारेविरहावस्थास्मरणेनाह । किंभूतः ।
विरहेण पाण्डु यन्मुरारिमुखाम्बुजं तस्य द्युतिरिव द्युतिर्यस्य । अत एव वेदनां तिर-
यन्नपि आच्छादयन्नपि । एतदुक्तं भवति । पूर्व मदीय विरहपाण्डुमुरारिमुखकान्ति-
मत्त्वेन मम वेदनां नाशयन्नपि कामसुहृत्त्वेन वेदनां करोत्येव । तदप्रात्यापि मदपे-
क्षया तस्य स्थितत्वाद्दुःखं नाभूत्, सांप्रतमन्यासक्तं तं ज्ञाला मया स्थातुं न शक्यत
 
तथा च
 
हंसलीलकः' इति । 'लवलेशकणाणवः' इत्यमरः ॥ ७ ॥ श्रीजयदेवेति । श्रीजयदेवेन
भणितं यद्धरे: कृष्णस्य रतिरमितं क्रीडितं कलेः कलियुगस्य कलुषं पापमर्थाच्छ्रोतॄणां
पाठकानां च परिशमितं जनयतु नष्टं करोतु ॥ ८ ॥ संप्रति चन्द्रोऽप्ययमधिकतरं
व्यथयतीत्याह – विरहेति । अये इति विषादे । अयं दृश्यमानश्चन्द्रो मम हृदये
मदनव्यथां कामपीडां तावदधिकं यथा स्यादेवं तनोति विस्तारयति । कीदृशः ।
विरहेण मद्विश्लेषेण पाण्डु धूसरं यन्मुर।रेः कृष्णस्य मुखाम्बुजमाननपद्मं तद्वद्द्युतिर्यस्य सः।
। तादृशकृष्णमुखाम्बुजसदृशचन्द्रदर्शने कृष्णमुखाम्बुजस्य स्मरणादतिव्यथा
जायत इति भावः । किं कुर्वन् । वेदनामपि तिरयंस्तिरोहितां कुर्वन् । तथा च ।
चन्द्रदर्शनेन तथा विवेकोन्मूलनं भवति यथा कृष्णमुपायेन कृतापराधमपि तमेव मनः
स्मरतीति भावः । व्यथाजनकत्वे हेतुमाह - मनोभुव इति । मनोभुवः कामस्य सुहृन्मित्रम् ।
तथा च निकटस्थितस्यापि कृष्णस्यानुसरणं मया न कृतमिति मदनाशालङ्घनात्कामो
मे वैरी जात: । सख्युस्तस्य साहाय्यं चिकीर्षता चन्द्रेणापि व्यथा जन्यत इति भावः ।
चन्द्रस्य कृष्णमनोजन्यत्वेन कामस्य मनसिजत्वेन प्रसिद्धेः । सोदरत्वेन कामचन्द्रयोः
सौहार्दाच्च मनोभवपदेन कामस्योपादानन् । तथा च श्रुतिः 'चन्द्रमा मनसो
जातश्चक्षोः सूर्यो अजायत ।' इति । 'वेदना ज्ञानदुःखयोः । भये क्रोधे विषादे
च संभ्रमे स्मरणेऽपि च' इति विश्वः । 'तिरोऽन्तधैँ तिर्थगर्थे' इति च ॥ ५ ॥
 

 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri