This page has been fully proofread once and needs a second look.

१०२
 
गीतगोविन्दकाव्यम्
 
विपुलपुलकपृथुवेपथुभङ्गा ।

श्वसितनिमीलितविकसदनङ्गा ॥ कापि० ॥ ६॥
 

 
श्रमजलकणभरसुभगशरीरा ।
 

परिपतितोरसि रतिरणधीरा ॥ कापि० ॥ ७ ॥
 
[ सर्गः ७
 

 
नुकरणानि यत्र तद्यथा स्यात्तथा रतिरसेन रतिरागेण रसिता शब्दिता । अथवा बहु-

विधं कूजितमव्यक्तः शब्दो यत्र तेन रविरसेन शब्दिता ॥ ५ ॥ अपि च ।

<pratika>
विपुले ति ।ति ।</pratika> विपुला बहवः पुलका रोमाञ्चा यत्र असौ विपुलपुलकः पृथुर्यो वेपथुस्तस्य

भङ्गस्तरङ्गो यस्याः, भङ्ग इव भङ्गः । श्वसितनिमीलिताभ्यां विकसन्प्रकटीभवन्ननङ्गः

एतल्लक्षणः कामो यस्याः ६ ॥ अपि च । <pratika>श्रमजलेति ।</pratika> किंभूता । स्वेद-

बिन्द्वङ्कितशरीरा । अपि च किंभूता । उरसि पतिता । अर्थाद्धरे: । रती रण इव
 

 
दर्शनेन लज्जा हास्यं च तस्या अभूदिति भावः । लज्जितहसितेत्यत्र प्रथमव्याख्याने

नपुंसके भावे क्तः । द्वितीयव्याख्याने लज्जधातोर्हास्यवाचकस्य धातोश्चाकर्मकत्वात्
'

"
गत्यर्थी थाकर्मक-'" इत्यादिना क्तः । कीदृशी । बहुविधं पिकशि खिकलहंसादीनामिव

नानाप्रकारं कूजितं शब्दितं यत्र एतादृशो रतिरस:सः सुरतरसस्तेन रसिता हृष्टा । यद्वा

बहुविधं नानाप्रकारं पारावतादीनां यत्कूजितं तद्वद्रतिरसे रसितं शब्दितं यस्याः सा ।
'

"
रसितं शब्दिते हृष्टे'" इति कोशः ॥ ५ ॥ पुनः कीदृशी । <pratika>विपुलेति ।</pratika> विपुलाः

प्रचुरा ये पुलका रोमाञ्चास्तेषां पृथुर्महान्यो वेपथुः कम्पस्तस्य भङ्गस्तरङ्गो यस्याः

सा, रोमाञ्चकम्पयोरुत्तरोत्पत्त्या तरङ्गसाम्यम् । '"भङ्गस्तरङ्गे रुग्भेदे भङ्गो जयविपर्यये । '
"
इति विश्वप्रकाशः । पुनः कीदृशी । श्वसितं सुरतायासजनितो निश्वासो निमीलितं

परमानन्दावाप्तिजनितं नेत्रनिमीलनं ताभ्यां विकसन्प्रकटीभवन्ननङ्गः कामो यस्याः सा ।

श्वसितेत्यनेनानन्दावाप्तिसान्निध्यं कथितम् । तदुक्तं रतिरहस्ये — '-- "मुहुश्च स्वजनाश्लेष:
षः
सीत्काराञ्चितलज्जितम् । हुङ्कारोच्छ्सितं नार्या बीवीर्सान्निध्यसूचकम् ॥" इति । निमी-

लितेत्यनेन च्युतिकाल:लः कथितः । तदुक्तं तत्रैव —'-- "मूर्च्छना मीलनं चाक्ष्णोश्च्युतिकालस्य

लक्षणम् ।'" इति ॥ ६ ॥ पुनः कीदृशी । <pratika>श्रमजलेति । </pratika>श्रमजलकणेन सुरतायासज-

नितप्रस्वेदबिन्दुसमूहेन सुभगं मनोहरं शरीरं यस्याः सा । त्रुटितहारेऽपि वक्षसि

स्वेदबिन्दुभिर्मुक्ताहारशोभाजननात्सुभगशरीरेति भावः । पुनः कीदृशी । उरसि कृष्णस्यो-

रसि परिपतिता । पुनः कीदृशी । रतिरणे सुरतसंग्रामे धीरा पण्डिता । अनेन

सुरतान्तकाल उक्तः । तदुक्तं रतिरहस्ये – '-- "अङ्गे खेस्वेदः शृश्लथत्वं च केशवस्त्रादिसंस्रुतिः ।

जाते च्युतिसुखे नार्या विरामेच्छा च जायते ॥'" इति । बन्धश्चायं हंसलीलकाख्यः । तदुक्तं

रतिरहस्से—'ये -- "नारी पादद्वयं दत्त्वा कान्तस्योरुयुगोपरि । कटिमान्दोलयेदाशु बन्धोऽयं
 

 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri
 
.