This page has not been fully proofread.

१०२
 
गीतगोविन्दकाव्यम्
 
विपुलपुलकपृथुवेपथुभङ्गा ।
श्वसितनिमीलितविकसदनङ्गा ॥ कापि० ॥ ६॥
 
श्रमजलकणभरसुभगशरीरा ।
 
परिपतितोरसि रतिरणधीरा ॥ कापि० ॥ ७ ॥
 
[ सर्गः ७
 
नुकरणानि यत्र तद्यथा स्यात्तथा रतिरसेन रतिरागेण रसिता शब्दिता । अथवा बहु-
विधं कूजितमव्यक्तः शब्दो यत्र तेन रविरसेन शब्दिता ॥ ५ ॥ अपि च ।
विपुले ति । विपुला बहवः पुलका रोमाञ्चा यत्र असौ विपुलपुलकः पृथुर्यो वेपथुस्तस्य
भङ्गस्तरङ्गो यस्याः, भङ्ग इव भङ्गः । श्वसितनिमीलिताभ्यां विकसन्प्रकटीभवन्ननङ्गः
एतल्लक्षणः कामो यस्याः ६ ॥ अपि च । श्रमजलेति । किंभूता । स्वेद-
बिन्द्वङ्कितशरीरा । अपि च किंभूता । उरसि पतिता । अर्थाद्धरे: । रती रण इव
 
दर्शनेन लज्जा हास्यं च तस्या अभूदिति भावः । लज्जितहसितेत्यत्र प्रथमव्याख्याने
नपुंसके भावे क्तः । द्वितीयव्याख्याने लज्जधातोर्हास्यवाचकस्य धातोश्चाकर्मकत्वात्
'गत्यर्थी कर्मक-' इत्यादिना क्तः । कीदृशी । बहुविधं पिकशि खिकलहंसादीनामिव
नानाप्रकारं कूजितं शब्दितं यत्र एतादृशो रतिरस: सुरतरसस्तेन रसिता हृष्टा । यद्वा
बहुविधं नानाप्रकारं पारावतादीनां यत्कूजितं तद्वद्रतिरसे रसितं शब्दितं यस्याः सा ।
'रसितं शब्दिते हृष्टे' इति कोशः ॥ ५ ॥ पुनः कीदृशी । विपुलेति । विपुलाः
प्रचुरा ये पुलका रोमाञ्चास्तेषां पृथुर्महान्यो वेपथुः कम्पस्तस्य भङ्गस्तरङ्गो यस्याः
सा, रोमाञ्चकम्पयोरुत्तरोत्पत्त्या तरङ्गसाम्यम् । 'भङ्गस्तरङ्गे रुग्भेदे भङ्गो जयविपर्यये । '
इति विश्वप्रकाशः । पुनः कीदृशी । श्वसितं सुरतायासजनितो निश्वासो निमीलितं
परमानन्दावाप्तिजनितं नेत्रनिमीलनं ताभ्यां विकसन्प्रकटीभवन्ननङ्गः कामो यस्याः सा ।
श्वसितेत्यनेनानन्दावाप्तिसान्निध्यं कथितम् । तदुक्तं रतिरहस्ये — 'मुहुश्च स्वजनाश्लेष:
सीत्काराञ्चितलज्जितम् । हुकारोच्छ्रसितं नार्या बीर्थसान्निध्यसूचकम् ॥" इति । निमी-
लितेत्यनेन च्युतिकाल: कथितः । तदुक्तं तत्रैव —'मूर्च्छना मीलनं चाक्ष्णोच्युतिकालस्य
लक्षणम् ।' इति ॥ ६ ॥ पुनः कीदृशी । श्रमजलेति । श्रमजलकणेन सुरतायासज-
नितप्रस्वेदबिन्दुसमूहेन सुभगं मनोहरं शरीरं यस्याः सा । त्रुटितहारेऽपि वक्षसि
स्वेदबिन्दुभिर्मुक्ताहारशोभाजननात्सुभगशरीरेति भावः । पुनः कीदृशी । उरसि कृष्णस्यो-
रसि परिपतिता । पुनः कीदृशी । रतिरणे सुरतसंग्रामे धीरा पण्डिता । अनेन
सुरतान्तकाल उक्तः । तदुक्तं रतिरहस्ये – 'अङ्गे खेदः शृथत्वं च केशवस्त्रादिसंस्रुतिः ।
जाते च्युतिसुखे नार्या विरामेच्छा च जायते ॥' इति । बन्धश्चायं हंसलीलकाख्यः । तदुक्तं
रतिरहस्से—'नारी पादद्वयं दत्त्वा कान्तस्योरुयुगोपरि । कटिमान्दोलयेदाशु बन्धोऽयं
 

 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri
 
.