This page has been fully proofread once and needs a second look.

सर्गः ७] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् १०१
 
हरिपरिरम्भणवंव[^१]लितविकारा ।

कुचकलशोपरि तरलितहारा ॥ कापि ० ॥ २ ॥

 
विचलदलकललिताननचन्द्रा ।
 
तदुद्

तद
धरपानरभसकृततन्द्रा ॥ कापि० ॥ ३ ॥

 
चञ्चलकुण्डलदलितकपोला ।
 

मुखरितरसनजघनगतिलोला ॥ कापि० ॥ ४ ॥

 
दयितविलोकितलज्जितहसिता
 

 

बहुविध कूजितरतिरसरसिता ॥ कापि० ॥ ५ ॥
 

 
रीषद्विलुलिताः केशा यस्याः सा । अनेनोक्तेनास्याः पुरुषायितत्वं व्यज्यते ॥ १ ॥ अपि च

<pratika>
हरीति ।</pratika> पुनः किंभूता । हरिपरिरम्भणेन वलितः संभक्तो विकारः कामोपलक्षितो

मानसो भावो यस्याः । कुचकलशयोरुपरि तरलश्चञ्चलो हारो यस्याः । अत्रापि

हारतरलत्वं पुरुषायितमभिव्यक्ति ॥ २ ॥ अपि च । <pratika>विचलदिति । </pratika>पुनः किं-

भूता । विचलदलकैलेर्ललितो मनोहरो मुखचन्द्रो यस्याः सा तथा । पुनः किंभूता । तदध-

रपानरभसेन हर्षेण कृता तन्द्रा सुखजनिताली कनिद्रा यया ॥ ३ ॥ अपि च । <pratika>चञ्चलेति ।
</pratika>
किंभूता । चञ्चलकुण्डलाभ्यां ललितौ (दलितौ) कपोलौ यस्याः । पुनः किंभूता । मुखरि
-
तरसना या जघनगतिः जघनस्य गतागतं तया लोला ॥ ४ ॥ अपि च । <pratika>दयितेति ।
</pratika>
किंभूता । लज्जिता चासौ हसिता च लज्जितहसिता । दयितविलोकितेन लज्जित-

हसिता । अपि च किंभूता । बहुविधानि कूजितानि पारावतादीनामव्यक्तशब्दा-

 
चुम्बनं कार्यमित्युक्तं प्राक् । '"अस्त्रियां समरानीकरणाः'" इत्यमरः । '"वेशो वेश्यागृहे

प्रोक्तो नेपथ्ये गृहमात्रके ।'" इति विश्वः ॥ १ ॥ पुनः कीदृशी । <pratika>हरीति ।</pratika> हरेः

परिरम्भणेनालिङ्गनेन चलितो जातो विकारो रोमाञ्चादिर्यस्याः । पुनः कीदृशी ।

कलशाविव कुचौ तत्र तरलितश्चञ्चलो हारो यस्याः सा ॥ २ ॥ पुनः कीदृशी ॥

<pratika>
विचलदिति । </pratika>विचलद्भिश्चञ्चलैरधिकैश्चूर्णकुन्तलैलैर्ललितो मनोहर आननचन्द्रो यस्याः

सा । लालित्यं चालकानां कलङ्कसादृश्यान्मुखे चलत्कलङ्कवत्त्वं चन्द्रमसः प्रतीयते ।

पुनः कीदृशी । तस्य कृष्णस्याधरपानरभसः तेन कृता चक्षुर्निमीलनेनाविष्कृता

तन्द्रा रतिसुखानुभवजनिता निद्रा यया सा ॥ ३ ॥ पुनः कीदृशी । <pratika>चञ्चलेति ।
</pratika>
चञ्चलाभ्यां कुण्डलाभ्यां दलितौ मृदितौ कपोलौ यस्याः सा । कुण्डलयोश्चाञ्चल्यं

पुरुषायितसकल नायिकातनुचाञ्चल्ये भवत्येव
। पुनः कीदृशी । <pratika>मुखरितेति ।
</pratika>
मुखरिता शब्दायमाना रसना क्षुद्रघण्टिका यस् तादृशस्य जघनस्य गत्या गतेन

लोला चञ्चला ॥ ४ ॥ पुनः कीदृशी । <pratika>दयितेति ।</pratika> दयितस्य कृष्णस्य विलोकितेन

वीक्षणेन लज्जितहसितं लज्जाहास्यं यस्याः सा । यद्वा दयितविलोकिते च लज्जिता

लज्जावती हास्ययुक्ता चेत्यर्थ:थः । पुरुषायमाणायास्तस्या अधःस्थितस्याङ्गनायमानस्य कृष्णस्य
 

 
[^
१. '] "णचलित०'" इति पाठ:.
 
११ गीत●
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri
 
ठः