2022-10-18 04:14:12 by ambuda-bot
This page has not been fully proofread.
सर्गः ७] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् १०१
हरिपरिरम्भणवंलितविकारा ।
कुचकलशोपरि तरलितहारा ॥ कापि ० ॥ २ ॥
विचलदलकललिताननचन्द्रा ।
तदुद्धरपानरभसकृततन्द्रा ॥ कापि० ॥ ३ ॥
चञ्चलकुण्डलदलितकपोला ।
मुखरितरसनजघनगतिलोला ॥ कापि० ॥ ४ ॥
दयितविलोकितलज्जितहसिता
।
बहुविध कूजितरतिरसरसिता ॥ कापि० ॥ ५ ॥
रीषद्विलुलिताः केशा यस्याः सा । अनेनोक्तेनास्याः पुरुषायितत्वं व्यज्यते ॥ १ ॥ अपि च
हरीति । पुनः किंभूता । हरिपरिरम्भणेन वलितः संभक्तो विकारः कामोपलक्षितो
मानसो भावो यस्याः । कुचकलशयोरुपरि तरलश्चञ्चलो हारो यस्याः । अत्रापि
हारतरलत्वं पुरुषायितमभिव्यक्ति ॥ २ ॥ अपि च । विचलदिति । पुनः किं-
भूता । विचलदलकैलेलितो मनोहरो मुखचन्द्रो यस्याः सा तथा । पुनः किंभूता । तदध-
रपानरभसेन हर्षेण कृता तन्द्रा सुखजनिताली कनिद्रा यया ॥ ३ ॥ अपि च । चञ्चलेति ।
किंभूता । चञ्चलकुण्डलाभ्यां ललितौ (दलितौ) कपोलौ यस्याः । पुनः किंभूता । मुखरि
तरसना या जघनगतिः जघनस्य गतागतं तया लोला ॥ ४ ॥ अपि च । दयितेति ।
किंभूता । लज्जिता चासौ हसिता च लज्जितहसिता । दयितविलोकितेन लज्जित-
हसिता । अपि च किंभूता । बहुविधानि कूजितानि पारावतादीनामव्यक्तशब्दा-
चुम्बनं कार्यमित्युक्तं प्राक् । 'अस्त्रियां समरानीकरणाः' इत्यमरः । 'वेशो वेश्यागृहे
प्रोक्तो नेपथ्ये गृहमात्रके ।' इति विश्वः ॥ १ ॥ पुनः कीदृशी । हरीति । हरेः
परिरम्भणेनालिङ्गनेन चलितो जातो विकारो रोमाञ्चादिर्यस्याः । पुनः कीदृशी ।
कलशाविव कुचौ तत्र तरलितश्चञ्चलो हारो यस्याः सा ॥ २ ॥ पुनः कीदृशी ॥
विचलदिति । विचलद्भिश्चञ्चलरधिकैश्चूर्णकुन्तलैलैलितो मनोहर आननचन्द्रो यस्याः
सा । लालित्यं चालकानां कलङ्कसादृश्यान्मुखे चलत्कलङ्कवत्वं चन्द्रमसः प्रतीयते ।
पुनः कीदृशी । तस्य कृष्णस्याधरपानरभसः तेन कृता चक्षुर्निमीलनेनाविष्कृता
तन्द्रा रतिसुखानुभवजनिता निद्रा यया सा ॥ ३ ॥ पुनः कीदृशी । चञ्चलेति ।
चञ्चलाभ्यां कुण्डलाभ्यां दलितौ मृदितौ कपोलौ यस्याः सा । कुण्डलयोश्चाञ्चल्यं
पुरुषायितसकल नायिकातनुचाञ्चल्ये भवत्येव
। पुनः कीदृशी । मुखरितेति ।
मुखरिता शब्दायमाना रसना क्षुद्रघण्टिका यस् तादृशस्य जघनस्य गत्या गतेन
लोला चञ्चला ॥ ४ ॥ पुनः कीदृशी । दयितेति । दयितस्य कृष्णस्य विलोकितेन
वीक्षणेन लज्जितहसितं लज्जाहास्यं यस्याः सा । यद्वा दयितविलोकिते च लज्जिता
लज्जावती हास्ययुक्ता चेत्यर्थ: । पुरुषायमाणायास्तस्या अधःस्थितस्याङ्गनायमानस्य कृष्णस्य
१. 'णचलित०' इति पाठ:.
११ गीत●
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri