2022-11-12 07:52:11 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
अथागतां माधवमन्तरेण सखीमियं वीक्ष्य विषादमूकाम् ।
विशङ्कमाना रभितं कयापि जनार्दनं दृष्टवदेतदाह ॥ ४ ॥
वसन्तरागयतितालाभ्यां गीयते । प्र० ॥ १४ ॥
स्मरसमरोचितविरचितवेशा
गलितकुसु[^१]मदरविलुलितकेशा
कापि मधुरिपुणा विलसति युवतिरधिकगुणा ॥ ध्रुवम् ॥
मीपे परिभ्राम्यति । अथवा तदपि न घटते । अथवा क्लान्तमनाः सन् पथि मार्गे
प्रस्थातुमेवाक्षम इति सुस्थितम् । शार्दूलविक्रीडितं वृत्तम् । संशयोऽलंकारः ॥ ३॥ अथ
सखीविषादानुमितं कृष्णस्यान्यासक्तत्वं वितर्कयन्नाह -- <pratika>अथेति ।</pratika>इयं राधा अथान-
न्तरं कृष्णं विना आगतां सखीं वीक्ष्य दृष्ट्वा तत्प्रत्यक्षीकृतमिव यथा स्यात्तथा तद्वक्ष्य-
माणमाह । किंभूतां सखीम् । विषादमूकामकृतकार्यत्वाद्विषण्णतया प्रतिवक्तुमक्षमाम् ।
किंभूता राधा । जनार्दनं कयापि कान्तया रमितं विशङ्कमाना । सखीविषादान्यथा-
नुपपत्त्याऽन्यासङ्गो व्यज्यते । उपेन्द्रवज्रावृत्तम् ॥ ४ ॥ इदमेव प्रथयति । तत्र पूर्वं
ध्रुवपदम् ॥ <pratika>कापीति ।</pratika>सखि, कापि युवतिः मधुरिपुणा सह विलसति । किंभूता ।
अधिका गुणाः सौन्दर्यादयो यस्याः । अर्थान्मत्सकाशात् । मां विहाय यया रमत
इति । मधुरिपुरित्यनेन तस्य माधुर्यानभिज्ञत्वं द्योत्यते । तेन अधिकगुणेत्यनेन मत्तो
हीनेति व्यज्यते ॥ अथ पदानि । <pratika>स्मरेति ।</pratika>किंभूता कापि स्मरसमरोचितो
विरचितो वेषः प्रसाधनं यया सा । स्मरसमरः कामकेलिः । अथवा स्मरो-
पलक्षितः समर इव समरः । अपि किंभूता । रतिविमर्दनेन विगलितपुष्पै-
प्रस्थातुमक्षमः । ततश्चलितुमेवासमर्थः इति किमु इत्यर्थः । उत्का चेयं नायिका --
"उत्का भवति सा यस्याः संकेतं नागतः प्रियः । तस्यानागमने हेतुं चिन्तयत्याकुलं
यथा ॥" इति ॥ ३ ॥ <pratika>अथेति ।</pratika> अथानन्तरमियं राधा एतद्वक्ष्यमाणं दृष्टवदाह उक्तवती ।
यथा कस्य कियद्वृत्तान्तः केनचित्साक्षादृष्टः कथयति तद्वदित्यर्थः । किं कृत्वा ।
सखीं माधवमन्तरेण कृष्णं विनागतां वीक्ष्य दृष्ट्वा । अत एव विषादेन मूकां मौनाम् ।
कीदृशी । जनार्दनं कृष्णं कयाचिन्नायिकया रमितं शङ्कमाना तर्कयन्ती । जनार्दनमित्यु-
चितपदोपपत्त्या ...... । तथा च जनानामर्दनस्वभावो यस्तस्य मम तापजनकत्वमु-
न्चितमेवेति भावः ॥ ४ ॥ तदेव गीतेन कथयति -- <pratika>स्मरेति ।</pratika>गीतस्यास्य वसन्तरागः ।
एकताली ताल: । गीतार्थस्तु -- कापि युवतिर्मधुरिपुणा कृष्णेन विलसति रमते । अत
एवाधिकगुणा अधिकः सौन्दर्यादिगुणो यस्याः सा । मत्संकेतागमनोत्सुकमपि कृष्णं गुणैर-
पहृत्य रमितवती । मत्तोऽप्यधिकगुणेति भावः । युवती विलसतीत्यनेन कामिकर्तृ-
कविलासाकथनाद्विपरीतरतमुक्तम् । कीदृशी । स्मरसमरः कामसंग्रामः । सुरतमिति यावत् ।
तत्रोचितो योग्यो विरचितः कृतो वेश आभरणं यया सा । पुनः कीदृशी । गलितः
स्खलितः कुसुमभरो यस्यास्तादृशी । विलुलिताः कृष्णेन कचग्रहपूर्वकं चुम्बना-
दानेन स्रस्ताः केशा यस्याः सा । विपरीतरते च नायिकायाः केशग्रहणपूर्वकमेव
[^१.] "कुसुमभरवि०" इति पाठः