This page has been fully proofread once and needs a second look.

सर्गः ७ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् ९९
 
हरिचरणशरणजयदेवकविभारती ।
 

वसतु हृदि युवतिरिव कोमलकलावती ॥ यामि हे० ॥ ८ ॥
तत्कि

 
तत्किं
कामपि कामिनीमभिसृतः किं वा कलाकेलिभि-

र्बद्धो बन्धुभिरन्धकारिणि वनाभ्यर्णे किमुद्धाभ्राम्यति ।

कान्तः क्वालान्तमना मनागपि पथि प्रस्थातुमेवाक्षमः

सङ्केतीकृतमञ्जवञ्जुललता कुञ्जेऽपि यन्नागतः ॥ ३ ॥
 

 
भवतीति व्यङ्ग्यम् । नगणितेत्यादौ निषेधार्थकनकारेण समासः । '"अनुनीतश्च खगः स

नैकधा'" इतिवत् । शेषविवक्षाभावान्मां स्मरतीत्यत्र न षष्ठी ॥ ७ ॥ अपि च <pratika>हरि-

चरणेति । </pratika>हरिचरणौ शरणं गृहं यस्याः सा चासौ जयदेवकविभारती च । अथवा

हरिचरणेति जयदेवविशेषणम् । तत्र शरणं रक्षितृ । हृदि वसतु । अर्थाद्भक्तानाम् ।

किंलक्षणा । कोमला कलावती च । तथा च सङ्गीतराजे – '-- "रागः स्यात्स्थान गौडाख्य-

स्तालो वर्णयती रसः । शृङ्गारो विप्रलम्भाख्यः प्रमदा मदनाकुला ॥ पक्षनामावले:
लेः
पाटा गुम्फिता यत्र गीतके । स्निग्धमधुसूदनोऽयं रासावलयनामकः ॥ प्रबन्धः

पृथिवीभर्त्रा प्रबद्धः प्रीतये हरेः ॥'" इति स्निग्धमधुसूदनरासावलयनामा प्रबन्धस्त्र-

योदशः ॥ ८ ॥ राधा तदनागमने स्वगतान्हेतून्वितर्कयति -- <pratika>तत्किमिति ।</pratika> यद्य-

स्मात्कान्तः कामुकः सङ्केतीकृतमञ्जुवञ्जुललताकुञ्जेऽपि यन्नागतः मनोहरवेतसलतागृ-

हेऽपि यन्नायासीत्तत्तस्मादहमिति वितर्कयामि । तमेव वितर्कमाह
-
-- <pratika>कामपीति ।</pratika> कां-

चित्कामिनीमभिसृतः किमन्यकामिन्यर्थं गतः । अथवा मामत्र संकेतस्थाने विहाय कथम-

न्यत्र विहरिष्यतीत्याशङ्ख्क्याह -- कलाकेलिभिर्बन्धुभिर्बद्धः किम् । <pratika>कलेति ।</pratika> विलासक्रीडा-

परैः । मामभ्युपगच्छन्नन्तरापि क्रीडावशो जातः । अथवा मां विहाय अन्यत्करोतीति

विचारेणाप्यलम् । किंतु मामेवाभिसरन् मामलभमान इतस्ततः सान्द्रेऽन्धकारे वनस-
-
 

 
नातिवसामि । अपि तु निवसाम्येव । शेषं पूर्ववत् । विप्रलब्धा चेयं नायिका ।

तल्लक्षणम् – '-- "कृत्वा संकेतमप्राप्ते दयिते व्यथिता तु या । विप्रलब्धेति सा प्रोक्ता बुधैरस्यास्तु

विक्रियाः । निर्वेदचिन्ताश्चेष्टास्तु मूर्च्छानिःश्वसितादयः" इति ॥ ७ ॥ <pratika>हरिचरणेति ।
</pratika>
हरेश्चरणौ शरणं यस्य तादृशो जयदेवकविस्तस्य भारती वाणी हृदि हृदये वसतु ।

अर्थात्कृष्णस्य भक्तानाम् । कीदृशी भारती । कोमलाऽनिष्ठुरवर्णा कलावती विचित्र -
-
कलायुक्ता । केव । युवतिरिव । कीदृशी । कोमला मृद्वङ्गी । कलावती चतुःषष्टि-

कलाकुशला ॥ ८ ॥ <pratika>तत्किमिति ।</pratika> कान्तः कृष्णः संकेतीकृतो मञ्जुर्मनोहरो वञ्जुललताकुक्षो
ञ्जो
वेत्रलतागृहं तत्रापि यत् यतो हेतोर्नागतस्तत्कामपि कामिनीं किमभिसृतः 1

अन्यस्याः कस्याश्चिदभिसारभूमिं प्राप्त इति किमु इत्यर्थः । यद्वा । बन्धुभिगो॑र्गोपभूमिं

प्राप्तः कलाकेलिभिः कौतुककलाभिर्बद्धो नियन्त्रितः किमु । यद्वा । अन्धका
रिणि
घनतरतरुच्छायायां निबिडान्धकारे वनोपान्ते संकेतीकृत विपिनसमीपे संकेतस्थलमप्राप्य

भ्राम्यत्ति किमु परिभ्रमणं करोति किम् । संशयान्तरमाह-
--
<pratika>क्लान्तमना
-क्लान्तमना इति । ति ।</pratika>प्रकृतकिमु-

शब्दोश्वादेऽत्रापि संबध्यते । तथा च । क्लान्तं मद्विश्लेषे दुःखेनोपतप्तं मनो यस्य एतादृशः ।
 
1
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri